पृष्ठम्:मालविकाग्निमित्रम्.djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
॥ मालविकाग्निमित्रम् ।


गण. ।चिरमपदे शङ्कितोस्मि । राजानं विलोक्य । अनुज्ञातं देव्या।
तदाज्ञापयतु देवः। कस्मिन्नभिनयवस्तुन्युपदेशं दर्शयिष्यामि ।
राजा । यदादिशति भगवती ।
परि० । किमपि देव्या मनसि वर्तते । तच्छङ्कितास्मि ।
देवी ।1 भण विस्सध्धं । णं प्पहविस्सं अत्तणो परिअणस्स ।
राजा। मम चेति ब्रूहि ।
देवी ।2 भअवदि भण दाणिं ।
परि० । देव चतुष्पदोद्भवं चलितमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामः । तावता ज्ञायत एव तत्रभवतोरुपदेशान्तरम् ।
उभौ। यदाज्ञापयति भगवती ।
विदूषकः ।3 तेण हि दुव्वे वि गदुअ पेख्खाघरए संगीदरअणं

करिअ अत्तभवदो दूदं विसज्जेह ।


१. भण विश्रब्धम् । ननु प्रभविष्याम्यात्मनः परिजनस्य ।
२. भगवति भणेदानीम् ।
३. तेन हि द्वावपि गत्वा प्रेक्षागृहे संगीतरचनां कृत्वात्रभवते दूतं विसर्जयतम् ।
2. A B C D E अभिनेय.
9. The MSS. प्पहविस्ससि, ex-
cept F.
18. F वग्गा ( . e. वर्गौ) for गडुश्र-
14 F' अत्तभवन्दो (=अत्रभवन्तौ.)
A B C D E विसज्जेहि