पृष्ठम्:मालविकाग्निमित्रम्.djvu/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
॥ प्रथमोङ्कः ॥


अह वा मिअङ्गसद्दो एव्व णो उठ्ठावइसदि ।
हरि० । तथा । इत्युत्तिष्ठति ।
गण० । देवीमवलोकयति ।
देवी ।2ण हि विअअपच्चथ्थिणी अहं अज्जस्स ण होमि ।
उभौ । प्रस्थितौ
परि० । इतस्तावदाचार्यौ।
उभौ । परिवृत्य । इमौ स्वः ।
परि० । निर्णयाधिकारे ब्रवीमि । ‘सर्वाङ्गसौष्ठवाभिव्यक्तये

विगतनेपथ्ययोः पात्रयोः प्रवेशोस्तु ।

उभौ । नेदमप्यावयोरुपदेश्यम् ।
निष्क्रान्तौ ।
देवीराजानं विलोक्य ।3 जइ इदरेसु राजकज्जेसुवि एव्वं उवाअणिउणदा अज्जउत्तस्स णं सोहणं भवे ।
राजा । देवि
अलमन्यथागृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम्।
प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥ १० ॥

। नेपथ्ये मृदङ्गशब्दः ।

सर्वे । कर्णं ददति


१. अथ वा मृदङ्गशब्द एव न उत्थापयिष्यति ।।
२. न हि विजयप्रत्यार्थिन्यहमार्यस्य न भवामि ।
३. यदीतरेषु राजकार्येष्वप्येवमुपायनिपुणतार्यपुत्रस्य ननु शोभनं भवेत् ।

4. E F ' अ-अस्स- A B C D E
read thus : ण हि विअअपिच्चख्खि-
णी अहं अज्जस्स । विजई होहिः
9. F विरलनैपथ्ययोः
12. B जई.-A एवं.
18. D E Fभ-भ- सोभणं.