पृष्ठम्:मालविकाग्निमित्रम्.djvu/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
॥ मालविकाग्निमित्रम् ।


विदूषकः ।1 सुठ्ठु होदी भणादि । भो गणदास संगीतओवदेसं
आरहिअ किं सरस्सइउवाअणमोदआइं खादअमाणस्स
सुलहणिग्गहेण विवादेण ।
गण°। सत्यमयमेवार्थौ देवीवचनस्य । श्रूयतामवसरप्राप्तम्।
लब्धास्पदोस्मीति विवादभीरोस्
तितिक्षमाणस्य परेण निन्दाम् ।
यस्यागमः केवलजीविकैव
तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥
विदूषकः ।2 'अइरोवणीदा वो सिस्सा । ता अवारिणिठ्ठिदस्स
उवदेसस्स अण्णअं पआसणम् ।
गण° । अत एव निर्बन्धः ।
देवी । 3तेण हि दुवेवि भअवदीए उवदेसं दंसह । ।
परि० । नैतन्न्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय ।

१. सुष्ठु भवती भणति । भो गणदास संगीतकोपदेशमारभ्य किं सरस्वत्युपायनमोदकान्खादतः सुलभनिग्रहेण विवादेन ।
२. अचिरोपनीता वः शिष्या । तदपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रकाशनम् ।
३. तेन हि द्वावपि भगवत्या उपदेशं दर्शयतम् ।

1. B D E संगीतयोव°.
2. A C D सरस्सहि” (सरस्सदि?).
-A B C D उवाअणं मोद,° E -
उवाअणं मोदअं.
4. A सत्यमेवायमेवार्थः- F' प्राप्त-
मिदम्
9. A B C E अचिर°, D अपरि.
10. A c E> आणअं; D अणअं