पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
॥ पञ्चमोङ्कः ॥
विदूषकः । १अहो देवींए अनहोंदो अणुऊलदा ।
देवी । परिजनमवलोकयति ।
परिजनः । मालविकामुपेत्य । जेदु भट्टिणी ।
देवी । परिव्राजिकामवेक्षते ।
परिव्राजिका । नैतच्चित्रं त्वयि । तथा हि ।
प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः ।
अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम्।।१८॥

। प्रविश्य निपुणिका ।

निपुणिका । ३जेदु भट्टा । इरावदी विण्णवेदि । उवआरादिक्कमेण तदा अहं अवरध्धा । संपदं पुण्णमणोरहो भट्टा ।
अहंवि भट्टिणा पसादमेत्तेण संभावइदव्वेत्ति ।
देवी । ४णिउणिए अवस्सं ताए संदेसं अणुजाणिस्सदि
अज्जउत्तो ।
निपुणिका । ५जं देवी आणवेदि ।

[ इति निष्कान्ता ।


१. अहो देव्या अत्रभवतोनुकूलता ।
२. जयतु भट्टिनी ।
३. जयतु भर्ता । इरावती विज्ञापयति । उपचारातिक्रमेण तदाहमपराद्धा । सांप्रतं पूर्णमनोरथो भर्ता । अहमपि भर्त्रा प्रसादमात्रेण संभावयितव्येति ।
४. निपुणिके अवश्यं तव ः संदेशमनुज्ञास्ययार्यपुत्रः ।
५. यहेव्याज्ञापयाति ।

1. A C Dदेविए.-A B C अणुजलदा.
2. F omits this and the follow -
ing speech.
5. F omits त्वयि."
7. F शतान्यपि for « शतानि हि”.-
F उदधिम् for « अब्धिम्.”
9. A B C D F उभभारदि.
11. पसादमेत्तेण”taken from G.
12. F ताए सेविदुं जाणिस्सिदि भ-अउ-
त्तो, for ‘‘ताए संदेसं भषुजाणि
स्सदि अज्जउत्ते.”
18. D E अ-अ°.
14. D E अणवेदि.