पृष्ठम्:मालविकाग्निमित्रम्.djvu/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११३
॥ मालविकाग्निमित्रम् ॥
परिव्राजिका। देव अहममुना भवत्संबन्धेन चारितार्थं माध
वसेनं सभाजयितुमिच्छामि यदि मयि तव प्रसादः ।
देवी । १अवसिदकज्जाए भअवदीए अम्हे परिच्चइदुं ण जुत्तं ।
राजा । भगवति मदीयेषु लेखेषु तत्रभवते त्वामुद्दिश्य सभाजनाक्षराणि पातयिष्यामि ।
परिव्राजिका । युवयोः स्नेहेन परवानयं जनः ।
देवो । आणवेदु अज्जउत्तो भूओवि किं पिअं अणुचिठ्ठामि ।
राजा । किमतः परम् । तथापि भवत्वेवं तावत् ।
त्वं मे प्रसादसुमुखी भव चण्डि नित्यम्
एतावदेव मृगये प्रतिपक्षहेतोः ।
आशास्यमीतिविगमप्रभृति प्रजानां
संपत्स्यते न खलु गोप्तरि नाग्निमित्रे ॥ १० ॥

[ इति निष्कान्ताः सर्वे ।

॥ इति पञ्चमोङ्कः ।

॥ इति कालिदासविरचितं मालविकाग्निमित्रं

नाम नाटकं समाप्तम् ॥


१. अवसितकार्यया भगवत्या वयं परित्यक्तुं न युक्तम् ।
२. आज्ञापयत्वार्यपुत्रो भूयोपि किं प्रियमनुतिष्ठामि ।

1. B चरितार्थमा°
2. F' मे for ' मयि.”
3. B भवसोदक°
7. D E F' अ-अ°-B भूयोवि.
15
11. Our MSS. आशास्यमित्यधिगम;
G आशास्यमभ्यधिगमWe with
Tullberg