पुटमेतत् सुपुष्टितम्
१०९
॥ मालविकाग्निमित्रम् ॥
- देवी । जनान्तिकम् । १जं मए असोअदोहलणिओए पडिण्णादं
- मालविआए तं च से अभिअणं च णिवोदिअ मह
- वअणेण इरावदिं अणुणोहि । तुएहं सच्चादो ण
- परिभ्भंसइदव्वेत्ति ।
- प्रतीहारी । २तह । इति निष्क्रम्य पुनः प्रविश्य । भट्टिणी पुत्तविअएण
- दिण्णपारितोसिआणं अन्तेउराणं आभलणाणं
- रअणमञ्जूसिआ संवुत्तम्हि ।
- देवी । ३किं अथ्थ अच्चरिअं । णं साहारणो ताणं मम अ अअं
- अभ्भूदओ ।
- प्रतीहारी । जनान्तिकम् । ४इरावदी उण विण्णवेदि। सरिसं ख्खु
- देवी णिवेदेदि। पुढमं संकप्पिदं अण्णहा कादुं ण
- जुज्जइत्ति ।
- १. यन्मयाशोकदोहदनियोगे प्रतिज्ञातं मालविकायै तच्चास्या अभिजनं च निवेद्य मम
- वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न परिभ्रंशयितव्येति ।
- २. तथा । भट्टिनि पुत्रविजयेन दत्तपारितोषिकाणामन्तःपुराणामाभरणानां
- रत्नमञ्जूषिका संवृत्तास्मि ।
- ३. किमत्राश्चर्यम् । ननु साधारणस्तासां मम चायमभ्युदयः ।
- ४. इरावती पुनर्विज्ञापयति । सदृशं खलु देवी निवेदयति । प्रथमं संकल्पितमन्यथा कर्तुं
- न युज्यत इति ।
|
|