पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
॥ पञ्चमोङ्कः ॥
देवी । १भअवदि तुए अणुमदं इछ्छामि अज्जसुमदिणा
पुढमदो संकप्पिदं अज्जउत्तस्स मालविअं पडिवादेदुं ।
परिव्राजिका । इदानीमपि त्वमेवास्याः प्रभवसि ।
देवी । मालविकां हस्ते गृहीत्वा । २अज्जउत्तो इमं {
पिअणिवेदणाणुरुवं पारितोसिअं मालविअं पडिछ्छदु ।
राजा। सव्रीडं जोषमास्ते ।
देवी । सस्मितम् । ३तं किं अवधीरोदि मं अज्जउत्तो ।
विदूषकः । ४होदि एवं लोअप्पवादो सव्वोवि णववरो
लज्जालुओ होदि ।
राजा । विदूषकमवेक्षते ।
विदूषकः ।५अह वा इमं देवीए दिण्णदेवीसहृं मालविअं
अत्तभवं पडिग्गहीदुं इछ्छदि ।

१. भगवति । तवानुमतमिच्छाम्यार्यसुमतिना प्रथमतः संकत्न्पितामार्य पुत्रस्य मालविकं
प्रतिपादयितुम् ।
२. आर्यपुत्र इमां प्रियनिवेदनानुरूपं पारितोषिकं मालविकां प्रतीच्छतु ।
३. तत्किमवधीरयति मामार्य पुत्रः ।
४. भवति एवं लोकप्रवादः सर्वोपि नववरो लज्जालुर्भवति ।
५. अथ वेमां देव्या दत्तदेवीशब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ।

1. D E F अ-अ°.
2. D E F ' अ-अ°.
4. D E F' अ=अ°
7. F अवधीरेहि = (अवधीरयीस).
E अवधीरेदि–D E F अ-अ.
8. B लज्जलुओ.
ll. Our MSS. do not give अह
वा; and they read अरूहदिं
for इछ्छदि in l, 12. We with
G-B इदं for ‘‘ इमं.”-B
देवीसज्जं—A B C D Eतत्तभवं.
12. A B C D E पडिग्गहिदुं.