पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८
॥ पञ्चमोङ्कः ॥
विदूषकः । १होदि परितुठ्ठोम्हि जं पिदरं अणुगदो वछ्छो ।
राजा । मौट्गल्य कलभेन खलु यूथपतिरनुकृतः ।
कञ्चुकी
नैतावता वीरविजृम्भितेन
चित्तस्य नो विस्मयमादधाति ।
यस्याप्रधृष्यः प्रभवस्वमुच्चैर्
वह्नेरपां दग्धुरिवोरुजन्मा ॥ १७ ॥
राजा । मौट्गल्य यज्ञसेनश्यालमुररीकृत्य मुच्यन्तां सर्वे
बन्धनस्थाः ।
कञ्चुकी । तथा ।

[ इति निष्कान्तः ।

देवः। २जअसेणे गछ्छ । इरावदीप्पमुहाणं अन्तेउराणं पुत्तस्स
विअअवुत्तन्तं णिवेदेहि ।
प्रतीहारी । ३तह । इति प्रस्थिता ।
देवी । ४एहि दाव ।
प्रतीहारी । प्रतिनिवृत्य । ५इआंम्हि ।

१. भवति परितुष्टोस्मि यत्पितरमनुगतो वत्सः।
२. जयसेने गच्छ । इरावतीप्रमुखाणामन्तःपुराणां पुत्रविजयवृत्तान्तं निवेदय ।
३. तथा ।
४. एहि तावत् ।
५. इयमस्मि ।

1. A होदी.
12. B इरावदिप्प°; C D इरावदिप.
13. B D E विअयउ°
16. Our MSS. उपसृत्य. We with
G-B इयम्हि.