पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
॥ पञ्चमोङ्कः ॥
राजा । तेन हि मन्त्रिपरिषदं ब्रूहि सेनापतये वीरसेनाय
लिख्यतामेवं क्रियतामिति ।
कञ्चुकी । तथा । इति निष्क्राम्य सप्राभृतकं लेखं गृहीत्वा पुनः प्रविश्य ।
अनुष्ठिता प्रभोराज्ञा । अयं पुनरिदानीं देवस्य सेनापतेः
पुष्पमित्रस्य सकाशात्सप्राभृतको लेखः प्राप्तः ।
प्रत्यक्षीकरोत्वेनं देवः ।
राजा । सहसोपसृत्य प्राभृतकं सोपचारकं शिरसि कृत्वा परिजनायार्पयति । लेखं
न नाट्येनोद्वेष्टयतेि ।
देवी। १अम्हहे । तदोमुहं एव्व णो हिअअं । सुणिस्सं दाव
गुरुअणकुसलाणन्तरं वसमित्तस्स वृत्तन्तं । अहिआरे
ख्खु मे पुतओ सेणावइणा णिउत्तो ।
राजा । उपविश्य वाचयति । स्वस्ति । यज्ञशरणात्सेनापतिः
पुष्पमित्रो वैदिशस्थं पुत्रमायुष्मन्तमग्निमित्रं
स्नेहात्परिष्वज्यानुदर्शयति । विदितमस्तु । योसौ राजसूययज्ञे दीक्षितेन

१. अम्महे ततोमुखमेव नो इदम् । श्रोष्यामि तावद्रुरूजनकुशलानन्तरं वसुमित्रस्य
वृत्तान्तम् । अधिकरे खलु मे पुत्रकः सेनापतिना नियुक्तः।

2. E omits “इति” after “क्रियताम्.”
3. A B C D E सप्राभृतिकम्.
4. B inserts भो before "प्रभोः.”
5. Our MSS. सोत्तरीयप्राभृतिक:
[F 'प्राभृतम]. We with G.
6. B °करोत्वेतद् .
7. A C प्राभृतिकम्.
9. B तदोहमुहं (?) for “ तदोमुहं”
10. B D उत्तन्तं--G's reading is worth noticing, viz,
अधिआरे खु सेणावइणो णिवुत्तो.
11. B C णिवुत्तो.
13. B वैदेशस्थम्; Eवैदिश्यम्.