पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
॥ पञ्चमोङ्कः ॥
राजा । पश्याम्याभरणलंकृतामेनाम् ।
अनतिलम्बिदुकूलनिवासिनी
लघुभिराभरणैः प्रतिभाति मे।
उडुगणैरुदयोन्मुखचन्द्रिका
गतहिमैरिव चैत्रविभावरी ॥ ७ ॥
दैवी । उपेत्य । १जेदु अज्जउत्तो ।
विदूषकः । २वढ्ढदु होदी ।
परिव्राजिका । विजयतां देवः ।
राजा । भगवत्यभिवादये ।
परिव्राजिका । अभिप्रेतसिद्धिरस्तु ।
देवी । सस्मितम् । ३अज्जउत्त एस दे तरुणीजणसहाअस्स असंकेदघरओ अम्हेहिं विसज्जिदो ।
विदूषकः। ४भो तुमं आराहिदोसि ।
राजा । सव्रीडमशोकमभित: परिक्रामन् ।
नायं देव्या भाजनत्वं न नये:
सत्काराणामीदृशानामशोकः ।
यः सावज्ञो माधवश्रीनियोगे
पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥

१. जयत्वार्य पुत्रः ।
२. वर्धतां भवती ।
३. आर्यपुत्र एष ते तरुणोजनसहायस्या-
शोकः संकेतगृहकोस्माभिर्विसर्जित: ।
४. भो त्वमाराधितोसि

6. B उपसृत्य, -B E' अ-अं'.
11. D E F अ-अ°.
12. E संकेतघरए corrected from
an original संकेतघरओ.--F
सज्जिदो (= सज्जितः ).
13. A c अराहिदो°.
17. B C D सावेक्षो; A E too' so
originally, but they after-
wards correct it into सापेक्षो