पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५
॥ मालविकाग्निमित्रम् ॥
राजा । स्थाने खल्वयं प्रसवमन्थरोभूत् । यदयमिदानीमनन्यसाधारणां शोभामुद्वहति । पश्य ।
सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् ।
निर्वृत्तदोहदेस्मिन्संक्रान्तानीव कुसुमानि ॥ ८ ॥
विदूषकः । १भो विस्सध्धो होहि । अम्हेसु उवगदेसु धारिणी 3
पस्सपरिवट्टिणीं मालविअं अणुणेइ ।
राजा । सहर्षम्। पश्य सखे ।
मामियमभ्युत्तिष्ठति देवी विनयादुपस्थिता प्रियया ।
विस्मृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥६॥

। ततः प्रविश्यति परिव्राजिका देवी

मालविका विभवतश्च परिवारः।

मालविका । आत्मगतम्। २जाणामि णिमित्तं कोदुआलंकारस्स ।
तहवि मम हिअअं विसिणीपत्तगअं सालिलं विअ वेवदि । दख्खिणेदरंवि णअणं पफ्फुरइ ।
विदूषकः ।२भो असंदेहं वेवाहिअणेवथ्थेण सविसेसं सोहइ अत्तहोदी मालविआ ।

१. भो विश्रब्धो भव । आवयोरुपगतयोर्धारिणीं पार्श्वपरिवर्तिनीं मालविकामनुनयति ।
२. जानामि निमित्तं कौतुकालंकारस्य । तथापि मम हृदयं बिसिनीपन्तगतं सलिलमिव वेपते । दक्षिणेतरमपि नयनं प्रस्फुरति ।
३. भो असंदेहं वैवाहिकनेपथ्येन सविशेषं शोभतेत्रभवती । मालविका ।

1. Our MSS. Omit अयं after
खलु." We with G.
4. B C D F °दौहृदे (दोर्हृदे?)-
6. Our MSS. अम्हेसु उवगदेसु &c.
as given above. G reads| .
otherwise. See Notes.
8. F विनयादनु[नु]-त्थिता प्रियया ।
11. B D E परीवार:
13. B पत्तगदं; P विसिणीपत्तगदं.
14. A C दखिणेदरं.
15. A D E णेवछ्छेण