पुटमेतत् सुपुष्टितम्
९४
॥ पञ्चमोङ्कः ॥
- राजा । ननु तत्रैव देवी ।
- प्रतीहारी । १अह इं । जहारुहसंमाणसुहिदं अन्तेउरजणं विसज्जिअ मालविअपुरोगेण अत्तणो परिअणेण सह देवं
- पडिवालेदि ।
- राजा। सहर्षम् । विदूषकं विलोक्य । जयसेने गच्छाग्रत: ।
- प्रतीहारी । २इदो इदो देवो ।
। सर्वे परिकामन्ति ।
- विदूषक:। विलोक्य । ३भो वअस्स किंवि परिवुत्तजोव्वणो विअ
- वसन्दो पमदवणे लख्स्वीअदि।
- राजा । यथावृत्तं भवानाह।
- अग्रे विकीर्णकुरबकफलजालविभुज्यमानसहकारम् ।
- परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेत: ॥४॥
- विदूषक: । ४भो अअं सो दिण्णणेवथ्थो विअ कुसुमथ्थबएहिं तवणीआसोओ । ओलोअदु भवं।
- १. अथ किम् । यथार्हसंमानसुखितमन्त:पुरजनं विसख्य्र मालविकापुरोगेणात्मन: परिजनेन सह देवं प्रतिपालयति ।
- २. इत इतो देव: ।
- ३. भो वयस्य किमपि परिवृत्तयौवन इव वसन्त: प्रमदवने लक्ष्यते ।
- ४. भो भयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोक: । आलोकयतु भवान् ।
|
|