पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
॥ मालविकाग्निमित्रम् ॥
राजा । आत्मगतम् । कथं नु संकटादस्मादात्मानं मोक्ष्यामि ।

। प्रविश्य सावेगं जयसेना ।

जयसेना। १देव्वं कुमारी वसूलछ्छी कन्दुअं अणुधावन्ती पिङ्गलवाणरेण बलिअं उत्नासिदा अङ्कणिसण्णा देवीए पवादे किसलअं विअ वेवमाणा दाणिपि पकिदिं ण पडिवज्जइ ।
राजा । कथं कातरो बालभावः ।
इरावती । सावेगम् । २तुवरेदु अज्जउलो णं समरसासइदुं । मा
से संदावजणिओ विआरो वढ्दु ।
राजा । अहमेनां संज्ञापयामि । सत्वरं परिक्रामति ।
विदूषकः । आत्मगतम्। ३साहु रे पिङ्गलवाणर साहु । परित्तादो तु-

ए सपख्खो ।

[ निष्कान्तो वयस्येन राजा इरावतो प्रतीहारो च ।

१. देव कुमारो बसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलदुन्त्रासित्वाङ्कनिषण्णा
देव्याः प्रवाते किसलय इव वेपमानेदानमपि प्रकृतिं न प्रतिपद्यते ।
२. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संतापजनितो विकारो वर्धताम् ।

३. साधु रे पिङ्गलबानर साधु । परित्रातस्त्वया सपक्षः।


2. 8 सवेगं.
3. B धावदो ; C D E धावती; F
धाबन्दी
4. A C °णिसण्णा; F अङ्के णिसण्णा.
5. A c दाणी°.-A पडिवज्जई.
7. F कष्टं for कथं."
8. B D E तुवरदु.-D E अ-अ.
9. A वदुः = E वट्ठदु.
10. C D E एतां.
11. We read आत्मगतम्" with G.