एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
॥ मालविकाग्निमित्रम् ॥
- राजा । आत्मगतम् । कथं नु संकटादस्मादात्मानं मोक्ष्यामि ।
। प्रविश्य सावेगं जयसेना ।
- जयसेना। १देव्वं कुमारी वसूलछ्छी कन्दुअं अणुधावन्ती पिङ्गलवाणरेण बलिअं उत्नासिदा अङ्कणिसण्णा देवीए पवादे किसलअं विअ वेवमाणा दाणिपि पकिदिं ण पडिवज्जइ ।
- राजा । कथं कातरो बालभावः ।
- इरावती । सावेगम् । २तुवरेदु अज्जउलो णं समरसासइदुं । मा
- से संदावजणिओ विआरो वढ्दु ।
- राजा । अहमेनां संज्ञापयामि । सत्वरं परिक्रामति ।
- विदूषकः । आत्मगतम्। ३साहु रे पिङ्गलवाणर साहु । परित्तादो तु-
ए सपख्खो ।
- [ निष्कान्तो वयस्येन राजा इरावतो प्रतीहारो च ।
- १. देव कुमारो बसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलदुन्त्रासित्वाङ्कनिषण्णा
- देव्याः प्रवाते किसलय इव वेपमानेदानमपि प्रकृतिं न प्रतिपद्यते ।
- २. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संतापजनितो विकारो वर्धताम् ।
३. साधु रे पिङ्गलबानर साधु । परित्रातस्त्वया सपक्षः।
|
|