पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
॥ मालविकाग्निमित्रम् ॥
विदुषकः । १इरावदिं अदिक्कमन्दी होहि ।
निपुणिका । २सुदं अच्चाहिदं । भुअंगभीरुअं बम्हबन्धुं इमिणा
भुअंगमकुडिलेण अत्त्तणो दण्डकट्टेण तम्भन्तरिदा भाअआमि ।
इरावती । ३अरुहदि किल किदवो उवद्दवस्स ।
निपुणिका । विदूषकस्योपरि दण्डकाष्ठं पातयति ।
विदूषकः । सहसा प्रतिबुध्य । ४अवि हा अवि हा । णं दव्वीकरो मे
उवरि पडिदो ।
राजा । सहसोपसृत्य ।सखे न् भेतव्यं न् भेतव्यम्।

मालविका । अनुसृत्य । ५भट्टा मा दाव सहसा णिक्कम । सप्पोत्ति

भणादि ।
इरावती । ६हध्धि हध्धि । भट्टा इदो एव्व धावइ ।

१. इरावतीमतिक्रामन्ती भव ।
२. श्रुतमत्याहितम् । भुजंगभीरुकं ब्रह्मबन्धुमनेन भुजंगकुटिलेनात्मनो दण्डकाष्ठेन स्तम्भान्तरिता भीषयामि ।
३. अर्हति किल कितव उपद्रवम् ।
४. अपि हा अपि हा । ननु दर्वीकरो ममोपरि पतितः ।
५. भर्तर्मा तावत्सहसा निष्क्रम । सर्व इति भणति ।
६. हा धिक् हा धिक् । भर्तेत एव धावति ।

1. A C D E इरावदीं.
3. E कुठिलेण-F om. "अत्त-
णो."-A काट्टेण.-E तम्भ-
न्तरिअ; F थ्थम्भन्तरिआ.-
A C भआअमि.
5. A उवहव्वस्स.
7. A B C D E omit "णं."
8. A C वडिदो.
10. E निक्कम.
12. A C धावई.