पृष्ठम्:मालविकाग्निमित्रम्.djvu/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
॥ चतुर्थोङ्कः ॥
राजा । साशङ्कम् । एषा कुसुमावचयव्यग्रहस्ता सख्यास्त इरावत्याः परिचारिका चन्द्रिका समागच्छति । इतस्तावदावां भित्तिगूढौ भवावः ।
विदूषकः । १कुम्भिलएहिं कामुएहिं अ पलिहलणीआ चन्दिआ ।

। उभौ यथोक्तं कुरुतः ।

राजा । गौतम कथं नु ते सखी मां प्रतिपालयति । एह्येनां
गवाक्षमाश्रित्य विलोकयावः ।

। इति विलोकयन्तौ स्थितौ ।

। ततः प्रविशति मालविका बकुलावलिका च ।

बकुलावलिका । २हला पणम भट्टा रं जो पस्सदो पिठ्ठदो देख्खीअदि ।
राजा । मन्ये प्रतिकृतिं मे दर्शयति ।
मालविका । सहर्षम् । ३णमो दे । द्वारमवलोक्य सविषादम् | कहिं ।

भट्टा । हला विप्पलम्भेसि मं ।


१. कुम्भीलकैः कामुकैश्च परिहरणीया चान्द्रका ।
२. हला प्रणम भर्तारं यः पार्श्वतः पृष्ठतो दृश्यते ।
३. नमस्ते । क्व भर्ता । हला विप्रलभसे माम् ।

1. Our MSS, and even G, कुसुमा-
पचय.० We with Tulberg.
3. B गूढं.
4. F पडिहलणोभा.
7. F omits «नु."
8. F reads प्रतिपालयावः अवलोक-
याव: (the latter most
likely intended to be an
explanation of the former)
in place of our‘विलोकयाव:
9. B D E omit ‘इति.
ll. A C D E पणम -A C देखी ;
F दख्खभदि
14. B आलोक्य-