पृष्ठम्:मालविकाग्निमित्रम्.djvu/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
॥ मालविकाग्निमित्रम् ॥
राजा। मा कातरो भूः। अविषः कदाचिदंशो भवेत् ।
विदूषकः। १कहं ण भाइस्सं । सिमिसिमाअन्ति मे अङ्गाइं ।
विषवेगं निरूपयति ।
देवी । उपसृत्य । २ही ही असुंह दंसिदं विआरेण । हला
अवलम्बह णं ।
परिजनः । ससंभ्रममवलम्बते ।
विदूषकः । राजानमवलोक्य । ३भो भवदो बालत्तणादोवि पिअव
अस्सोम्हि । तं विआरिअ मुध्धाए मे जणणीए ओअख्खेमं वहेहि ।
राजा । मा भैषीः। अचिरात्त्वां वैद्यश्चिकित्सते । स्थिरो भव। 10

। प्रविश्य प्रतीहारी ।

प्रतिहारी । ४देव धुवसिध्धी विण्णवेदि । इह ज्जेव आणीअदु
गोदमोत्ति ।
राजा । तेन हि वर्षवरपरिगृहीतमेनं तत्रभवतः सकाशं
प्रापय ।
प्रतीहारी । ५तह ।

१. कथं न भेष्यामि । सिमिसिमायन्ति मेङ्गानि ।
२. हा हा । असुखं दष्टं विषारेण । हला अवलम्बध्वमेनम् ।
३- भो भवतो बाल्यादपि प्रियवयस्योस्मि । तद्विचार्यं मुग्धाया मे जनन्या ::योगक्षेमं वहस्व।
४. देव ध्रुवसिद्धिर्विज्ञापयति । ईहैवानयतां गौतम इति ।
५. तथा ।

1. F अविषोपि.
2. A C भाईस्सं
3. D रूपयति
4. Our MSS. अहिअं दंसिदं विअ
विआरेण for “ असुहं&c. we
according to G.
8. 5 बुध्धाए
12. A विणवेदि.- इह एव्व.-A B c
आणीयदु
14. E वर्षधर