पृष्ठम्:मालविकाग्निमित्रम्.djvu/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
देवी । १भअवदि अदिरमणिज्जं कहावथ्थु । तदो तदो ।
परिव्राजिका । सदृष्टिक्षेपम् । अतः परं पुनः कथयिष्यामि । अत्र
भवानीश्वरः संप्राप्तः।
देवी । २अम्हो अज्जउत्तो । इत्युत्थातुमिच्छति ।
राजा । अलमलमुपचारयन्त्रणया ।
अनुचितनूपुरविरहं नार्हसि तपनीयपीठकालम्बि।
चरणं रुजापरीतं कलभाषिणि मां च पीडयितुम्। ॥३॥
परिव्राजिका । विजयतां देवः ।
देवी । ३जेदु अज्जउत्तो ।
राजा । परिव्राजिकां प्रणम्योपविश्य । देवि अपि सह्या वेदना ।
देवि । ४अथ्थि मे दाणिं विसेसो ।

। ततः प्रवीशति यज्ञोपवीतबद्धाड्गुष्ठ:

संभ्रान्तो विदूषकः ।

विदूषकः । ५अवि हा अवि हा । सप्पेण संदठ्ठोम्हि ।

। सर्वे विषण्णाः ।

राजा । कष्टम् । क्व भवान्परिभ्रान्तः ।

१.भगवति अतिरमणीयं कथावस्तु । ततस्ततः ।
२.अहो भार्यपुत्रः ।
३.जयत्वार्यपुत्रः ।
४.अस्ति म इदानीं विशेषः ।
५.अपि हा अपि हा । सर्पेण संदष्टोस्मि ।

1. C रमाण्णज्जं; F रमणीज्जं.
4. D E F अ-अं .
6. A B C E नार्हति.
9. E अ-अं.
11. F omits दाणिं. altogether.
14. E omits the repeated अवि हा.