पृष्ठम्:मालविकाग्निमित्रम्.djvu/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
॥ चतुर्थोङ्कः ॥
विदूषकः । सकृष्टिक्षेपम् । १कोवि अदिट्टो सुणादि । ता कण्णे
दे कहेमि । उपश्लिश्य कर्णे । एव्वं विअ ।
राजा । सष्टु चिन्तितं प्रयुज्यतां सिद्धये ।
प्रतीहारी । प्रविश्य । २देव पवादसअणे देवी णिसण्णा रत्त
चन्दणधारिणा परिअणहथ्थगहीदेण चलणेण भअवदीए
परिव्वाजिआए कहाहिं विणोदिअमाणा चिठ्ठ्इ ।
राजा । अस्मत्प्रवेशयोग्योयमवसरः ।
विदूषकः । ३ता गछ्छ्छदु भवं । अहंवि देविं देख्खिदुं अरित्तपाणि
भविस्सं ।
राजा । जयसेनायास्तावत्संवेद्य गच्छ ।
विदूषकः। कर्णे । ४होदि एव्वं विअ ।
[ इति निष्क्रान्तः ।
राजा । जयसेने प्रवातशयनमार्गमादेशय ।
प्रतीहारी । ५इदो इदो ।

। ततः प्रविष्टा शयनस्था देवी परिव्राजिका विभवतश्च परिवारः ।

१. कोप्यदृष्टः शृणोति । तत्कर्णे ते कथयामि । एवमिव ।
२. देव प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणापरिजनहस्तगृहीतेन चरणेन भगवत्या परिव्राजिकया कथाभिर्विनोद्यमाना तिष्ठति ।
३. तद्गछ्छतु भवान् । अहमपि देवीं प्रेक्षितुमरिक्तपाणिर्भवामि ।
४. भवति एवमिव ।
५. इत इतः ।

4. B पादसभणे-A c णिस्सण्णा.
6. A B C D E °गहिदेण.
8. B शद – देवीं दख्खिदुं.-D
F पाणो.
10. F' संपाद्य for ‘सेवेद्य "
11. B omits« होदि"-AC E F एवं.
14. D does not repeat “इदो."
15. B परीवारः