पृष्ठम्:मालविकाग्निमित्रम्.djvu/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
॥ मालविकाग्निमित्रम् ॥
राजा । अहो दीर्घरोषता तत्रभवत्याः । अतः परं कथय ।
विदूषकः । १अदो वरं किं । मालविआ बउलावलिआ अ
णिअलवदीओ अदिठ्ठसूज्जपादं पादालवासं णाअकण्णआ विअ अणुहोन्ति ।
राजा । कष्टम् ।
मधुररवा परभृतिका भ्रमरी च विबुद्धचूतसङ्गिन्यौ ।
कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥ 2॥
वयस्य अप्यत्रोपक्रमस्य कस्याचिद्गतिः स्यात् ।
विदूषकः। २कहं भविस्सदि । जं सारभण्डवाउदा माहविआ
देवीए संदिठ्ठा मह अङ्गुलीअमुद्दं अदेख्खिअ ण मोत्तव्वा 10
तुए हदासा मालविएत्ति ।
राजा । निःश्वस्य । सखे किमत्र प्रतिकर्तव्यम् ।
विदूषकः । विचिन्त्य । ३अथ्थि अथ्थ उवाओ ।
राजा । क इव ।

१. अतः परं किम् । मालविका बकुलावलिका च निगडवत्यावदृष्टसूर्यपादं पातालवासं
नागकन्यके इवानुभवत:।
२. कथं भविष्यति । यत्सारभाण्डव्यापृता माधविका देव्या संदिष्टा ममाङ्गुलीयमुद्रामदृष्ट्वा
न मोक्तव्या त्वया हताशा मालविकेति ।
३. अस्त्यत्रोपायः।

1. B अत्रभवत्यां for « तत्रभवत्याः"
3. A B C D E सुज्ज
6.F मधुरस्वरापरभृतिः as the first
pada.
8. F वयस्य अप्यस्य कस्यचिदुपक्रमस्य
&c.
10. A CD E F' मम for — मह.”–
F अदख्खिभ.
13. B एथ्थ. But it seems to have
originally read अथ्थ. -F
अथ्थि एव उवाओ (= अस्त्ये-
वोपायः).