पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
॥ मालविकाग्निमित्रम् ॥
राजा
शठ इति मयि तावदस्तु ते
परिचयवत्यवधीरणा प्रिये।
चरणपतितया न चण्डतां
विसृजसि मेखलयापि याचिता ॥ १९ ॥
इरावती । १इअंपि हदासा तुमं एव्व अणुसरदि । रशनामादाय
राजानं ताडयितुमिच्छति ।
राजा । एषा
बाष्पासारा हेमकाञ्चीगुणेन
श्रोणीबिम्बादव्यपेक्षाच्युतेन।
चण्डी चण्डं हन्तुमभ्युद्यता मां
विद्युद्दाम्रा मेघराजीव विन्ध्यम् ॥ २० ॥
इरावती । २किं मं भूओवि अवरध्धं करेसि । इति सरशनहस्तमालम्बते ।
राजा
अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि।
वर्धयसि विलसितं त्वं दासजनायात्र कुप्यसि च ॥ २१ ॥
आत्मगतम् । नूनमिदानीमनुज्ञातम् । पादयोः पतति ।

१. इयमपि हताशा त्वामेवनुसरति ।
२. किं मां भूयोप्यपराद्धां करोषि ।

6. F इभवि.
10. A B C D E अभ्युपेक्षा०.
11. E अभ्युद्युत.
13. A मां for "मं"- A B C D E
भूयोवि.-F अवरुद्धं, translated in its छाया by अवरोधं.