पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पानात्ययादिनिदानम् १८॥ त्ययः- त्यय:- मथजन्यविकारणां नामानि दर्शयति-पानात्ययमित्यादिना ॥१५॥ वातप्रायमदा-हिकाचासशिरकम्पपावशूलप्रजागरैः। त्ययः- विद्याद्वहुप्रलापस्य वातप्रायं मदात्ययम् ॥ १६ ॥ पित्तप्रायमदा-सृष्णादाहज्वरोदमोहातीसारविभ्रमैः विद्यारितवर्णस्य पित्तप्रायं मदात्ययम् ॥१७॥ कफप्रायमदा-छZरोचकहल्लासतन्द्रास्तैमित्यगौरवैः विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ॥१८॥ त्रिदोषजमदात्ययः-ज्ञेयस्त्रिदोषजश्चापि सर्गलिङ्गैर्मदात्ययः ॥१९॥ तेषां लक्षणानि दोषभेदेन विवृणोति-हिक्केत्यादिना ॥ १६-१९ ।। परमदलक्षणं-श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च विषमूत्रसक्तिरथ तन्दिररोचकश्च । लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञा- स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ॥२०॥ परमदमाह-लेष्मोच्छ्रय इत्यादि । श्लेष्मोच्छ्यो-प्राणस्रावादि- भिशेयः, विरसास्यता-आस्यवरस्य, विण्मूत्रसक्किमलमूत्रावरोधः, सन्धिषु भेदः-सन्धिस्थानेषु भगवत् पीडोपलब्धिः ॥ २० ॥ पानाजीणंपान-आध्मानमुग्रमथ चोद्विरणं विदाहः विभ्रमरूप-पानेऽजरां समुपगच्छति लक्षणानि । हदगानतोदकफसंस्रवकण्ठधूमा- मूविमिज्वरशिरोरुजनप्रदाहाः ॥ द्वेषः सुराऽनविकृतेष्वपि तेषु तेषु ते पानविभ्रममुशन्त्यखिलेन धीराः ॥२१॥ पानाजीर्णमाह-आध्मानमित्यादि । उद्गिरण-वमनम् , अजराम्= अपक्वता, समुपगच्छति सति, सप्तम्यन्तं पदम्। पानविभ्रममाह-हदित्यादि। कफर्सनवः- श्लेष्मनिर्गमः, कण्ठधूमः कण्ठाद् धूमोद्गमनवव्यथा, रुजन-मस्तकपीडा, अखिलेन समग्रेण, उशन्ति इच्छन्ति । (वश- कान्तो धातुः) कान्तिरिहेच्छा ॥ २१ ॥ असाध्यरूप-हीनोत्तरोधमविशीतममन्ददाह- तैलप्रभात्यमपि पानहतं त्यजेत्तु ।