पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माह- ८६ सुधोपेते माधवनिदाने- उन्मत्तस्य लीलाऽऽकृतिभ्यां सह वर्तत इति सोन्मसलीलाऽऽकृतिः। अप्र- शान्त:-प्रचण्डः॥८॥ तृतीयमद- गच्छेदगम्यान गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसंज्ञः । माह- ब्रूयाच गुयानि हृदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्रः ९ तृतीयमदमाह-गच्छेदित्यादि । तृतीये मदे-अगम्यान्-गुरुदारादीन् , अभक्ष्याणि-विष्ठाऽऽदीनि, गुह्मानिरहस्याणि, अस्वतन्त्रः- परतन्त्रः, मदाधीन इति यावत् ॥ ९॥ चतुर्थमद- चतुर्थे तु मदे मूढो भग्नदाविव निष्क्रियः । कार्याकार्यविभागाज्ञो मृतादप्यपरो मृतः ॥१०॥ को मदं तादृशं गच्छेदुन्मादमिव चापरम् । बहुदोषमिवामूढः कान्तारं स्ववशः कृती ॥११॥ चतुर्थमदमाह-चतुर्थ इत्यादि । चतुर्थे मदे नरो मूढः प्रशानी, भग्न- दारु इव-क्षतवृक्ष इव, निष्क्रियो-नियापार, कार्याकार्यविभागाज्ञः- कर्तव्याकर्त्तव्यविवेकशून्यः, कः कृती कुशलः, बहुदोषनानाहिंस्रजन्तुयुक्त, कान्तारं-बनमिव, अपरमुन्मादमिव च तादृशं पिबेत् , न कोऽपि विवेकी- त्यर्थः ॥१०-११॥ मदात्ययादि-निर्भक्तमेकान्तत एव मद्य निषेव्यमाणं मनुजेन नित्यम् । हेतुः- आपादयेत्कष्टतमान्विकारानापादयेशापि :शरीरभेदम् ॥१२॥ अविधिपीतमयस्य विकारान्तरकारित्वमाह-निर्भक्तमित्यादि। निर्भ- क्तम् अन्नहीनम्, एकान्ततः अनुक्षणं, कष्टतमान-कायक्लेशकरान् , विकारान् शरीरभेद कलेवरविनाशम् , आपादयेत् संजनयेत् ॥ १२ ॥ क्रुद्धेन भीतेन पिपासितेन शोकाभितप्लेन बुभुक्षितेन । व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ॥१३॥ अत्यम्बुभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाऽवलेन । उष्णाभितप्तेनच सेव्यमान करोति मधं विविधान्विकारान् ॥ अन्नोपहितमद्यसेवनेऽपि नानाकारणकदम्बाद्रोगान्तरोत्पत्तिस्तदाह-क्रुद्धने- त्यादि । बुभुक्षितेन-तुधितेन, अत्यम्बुभक्ष्यावततोदरेण=अत्यम्बुभक्ष्याभ्या- मवततं व्याप्तमुदरं यस्य स तेन । उष्णामितप्तेन वहिधर्मादिसन्तप्तेन१३-१४ नामनिर्देशः-पानात्ययं परमदं पानाजीर्णमथापि वा। पानविभ्रममु च तेषां वक्ष्यामि लक्षणम् ॥ १५ ॥ -