पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- मूर्खासैन्या-दोषेषु मदमूळयाः कृतवेगेषु देहिनाम् । सभेदः-स्वयमेवोपशाम्यन्ति संन्यासो नौषधविना ॥२४॥ संन्यासस्य मूर्छाऽऽदिभ्यो भेदं विवक्षुराह-दोषेष्विति । संन्यास औष- धेविना नोपशाम्यति, मूर्छाऽऽदयस्तु स्वयमेवोपशाम्यन्तीति भेदः ॥ २४ ॥ संन्यासरूपं-वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः । संन्यस्यन्त्यबल जन्तुं प्राणायतनमाश्रिताः ॥२६॥ स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः । प्राणैर्विमुच्यते शीघ्र मुक्त्वा सघाफलां क्रियाम् ॥ २६ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने सप्तदश मूर्छा-भ्रम-निद्रा- तद्रा-संन्यास-निदान समाप्तम् ॥ १७ ॥ संन्यासलक्षणमाह-वागित्यादि। प्राणायतनं हृदयम् , आश्रिताः, अ. तिबला: अधिकप्रबृद्धाः, मला: दोषाः, अबलं दुर्बलं, जन्तुं-मानव, संन्य- स्यन्ति = मोहयन्ति, सः, ना-मनुष्यः, संन्याससंन्यस्ता संन्यासरोगा- क्रान्तः, काष्ठीभूतः निर्व्यापारत्वेन, भकाष्ठ एव काष्ठवद्भूतः, अत एव मृतो- पमः गतासुकल्पः, सद्यःफल-सूचीव्यधनकेशोत्पाटनशिम्बोफलघर्षणादिका कियां मुक्त्वा प्राणः, वियुज्यते-म्रियते, अन्यथा, स्वस्थो भवति ॥ २५-२६ ।। इति सुधायां मूर्छाऽऽदिरोगनिदानम् । . अथाष्टादशं पानात्यय-परमद-पानाजीर्ण-पान. विभ्रम-निदानम् ॥ १८ ॥ मदात्ययहेतु:-ये विषस्य गुणाः प्रोक्तास्तेऽपि मचे प्रतिष्ठिताः। तेन मिथ्योपयुक्तेन भवत्युमो मदात्ययः॥१॥ मूर्छाया विषमद्याभ्यामपि जन्यत्वसम्भवान्मू ऽनन्तरं मयविकाराम् मदात्ययादीनाह-य इत्यादि। मिथ्योपयुक्तेन-अयथाविधिपीतेन, तेना- येन, उपो भयङ्करः, मदात्यय: मदेन प्रत्ययो विनाशो मदात्ययः, भवति ॥१॥ मयस्वभाव:-किन्तु म स्वभावेन यथवान्न तथा स्मृतम् ॥२॥ तत्कुयोगसु-अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् । योगफल-प्राणाः प्राणन्तामन तदयुक्त्या हिनस्स्यसून् । विष प्राणहरं तच्च युक्तियुक्त रसायनम् ॥३॥