पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पानात्ययादिनिदानम् १८॥ - ननु मबस्य विषसमानगुणकारितया विषवन्मथमपि नोपादेयमित्यत आह- किन्त्वित्यादि । मधं-मुरा, यथैवान्नं तथा स्मृतम् , अयुक्तियुक्तम् अयथा- विधिसेवित, रोगाय, युक्तियुक्त-शास्त्रानुकूलं, यथाऽमृतम् , अत्रवोदाहरण. माह-प्राणा इति । प्राणभृतां जीवधारिणाम् , अन्न प्राणाः, अयुक्तियुक्त तदेवान्न सेवितं विषूचिकाऽऽदिरोगैः, असून-प्राणान् , हिनस्ति । विषं स्वभा- वतः प्राणहरम् , युक्तियुक्तं तदेव विष रसायनं भवति ॥२-३ ॥ विधिनोपयु-विधिना मात्रया काले हितैरन्नयथावलम् । क्तस्य मधस्य प्रहृष्टो यः पिबेन्मयं तस्य स्यादमृतोपमम् ॥ ४ ॥ गुणाः-स्निग्धस्तदम्नैर्मोसैश्च भक्ष्यैश्च सह सेवितम् । भवेदायुःप्रकर्षाय बलायोपचयाय च ॥५॥ काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च । विधिवत्सेव्यमाने तु मधे संनिहिता गुणाः ॥६॥ मयस्य यथाविधिसेवितस्य फलमाह-विधिनेत्यादि । यः पुरुषः, काले =नित्यगे चावस्थिके च, विधिना शास्त्रानुकूलेन, मात्रया भग्निबलानुरूपेण हितैरन्नः, यथावलं यथासामध्य, प्रहृष्टः प्रसन्नः सन् , मधं-सुरां, पिबेत् तस्यामृतोपमं मचं स्यात् । आयुःप्रकर्षाय-जीवनबृद्धये, बलाय-शक्तयुप- चयाय, उपचयापचयस्थूलतोत्पादनाय । काम्यता कमनीयमूर्त्तिता, मनस- स्तुष्टि चित्तसन्तोषः, तेजः उत्साहः, विक्रमःम्पराक्रमः, विधिवत-शास्त्रा- नुकूलम् , सेविते-पीते, मद्ये सन्निहिता-मद्यवर्तिनो गुणाः सन्ति ॥४-६॥ प्रथममदमाह-बुद्धिस्मृतिप्रीतिकरः सुखश्च पानाननिद्रारतिवर्धनश्च । संपाठगीतस्वरबर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि॥॥ त्रिविधस्य मदात्ययस्य क्रमेण लक्षणान्याइ-बुद्धीत्यादिना। प्रथमो मदः, बुद्धिस्मृतिप्रीतिकर: बुद्धिरनुभवः-स्मृतिरनुभवाहितसंस्कारजन्य ज्ञानं, प्रीतिरनुरागः, पानान्नादिषु रतिवर्धनः अनुरागोत्पादकः, संपाठः सम्यक् पाठः, अतिरम्या रमणीयतरः ॥७॥ मध्यमदमाह-अव्यक्तबुद्धिस्मृतिवाग्विचेष्टःसोन्मत्तलीलाऽऽकृतिरप्रशान्तः।। आलस्यनिद्राभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ॥८॥ द्वितीयमदमाह-अव्यक्तेत्यादि । मध्येन-द्वितीयेन, मदेन मत्तः, बुद्धिश्च स्मृतिश्च वाक् च विचेष्टा च बुद्धिस्मृतिवागविचेष्टाः, भव्यक्ता बुद्धिस्मृतिवागवि चेष्टा यस्य स तथाभूतः, विरुद्धा चेष्टा विचेष्टा, लीला चाकृतिश्च लीलाकृती