पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूर्छाऽऽदिनिदानम् १७॥ रक्तमध- स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूच्छितः । मूर्छारूपं मद्येन विलपञ्छेते नष्टविभ्रान्तमानसः । गात्राणि विक्षिपन भूमौ जरां यावन याति तत् ॥ १७ ॥ रक्तजादिमूत्रियस्य लक्षणान्याह-स्तब्धाङ्ग इत्यादि । असृजा- रक्तेन, मूच्छितो नरः, स्तब्धे निश्चले अङ्गदृष्टीयस्य सतथा । गूढोच्छ्वास:- अविस्पष्टनिःश्वासः, मद्यतः- मद्यपानेन, नष्टविभ्रान्तमानसः= नष्टं वि. भ्रान्त च मानसं-चित्तं यस्य स तथा, जरां-पकताम् ॥ १७ ॥ विषमूर्छा- वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूञ्छिते । रूप- वेदितव्यं तीव्रतरं यथास्वं विषलक्षणः॥१८॥ विषमूच्छितेविषभक्षणजायमाने मूर्छाये, वेपथुः- कम्पः, यथास्वं विषलक्षणैः सौश्रुतकल्पस्थानोपवणितैः ॥ १८ ॥ मूर्धाभेदाः-मूर्छा पित्ततमःप्राया, रजापिसानिलाद नमः । समोवातकफाचन्द्रा, निद्रा श्लेष्मतमोभवा ॥१९॥ चैतन्यनाशत्वाविशेषेऽपि मूर्छाऽऽदीनां भेदं दर्शयति-मूच्छेत्यादि। तमो. वातकफादित्येकवचनन्तु समाहारद्वन्द्वादिति बोध्यम् ॥ १९ ॥ भ्रमरोगः-(चक्रवदूभ्रमतो गात्रं भूमौ पतति सर्वदा । भ्रमरोग इति शेयो रजःपित्तानिलात्मकः)॥२०॥ निद्रारोगलक्ष-( यदा तु मनसि क्लान्ते कर्मात्मानः लमान्विताः । णम्-विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः ) ॥२१॥ तन्द्रारोग-इन्द्रियार्थेष्वसवित्तिर्गौरवं जम्भणं क्लमः । लक्षणम् निद्राऽऽत्र्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ॥ २२ ॥ तन्द्रालक्षणमाह-इन्द्रियाविति । इन्द्रियार्थेषु-शब्दस्पर्शादिषु, अ. संवित्तिः ज्ञानशून्यता, निद्राऽऽर्तस्येव,यस्य-पुरुषस्य, ईहाम्चेष्टा, शेषं सुग. मम् । निद्रा हि विप्लुतमनसः सर्वेन्द्रियाणां स्वविषयनिवृत्तिः। यदुक्तं चरके. पतअलिना-यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः। विष- येभ्यो निवर्तन्ते तदा स्वपिति मानवः ॥ ति। भ्रमलक्षणन्तु-चक्रारू- ढस्येव भ्रमन्निखिलपदार्थावभासः ॥ २२ ॥ कुमलक्षणम् (योऽनायासः श्रमो देहे प्रवृद्धा श्वासबर्जितः । क्लमः स इति विज्ञेय इन्द्रियार्थप्रवाधकः) ॥२३॥