पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छर्दिनिदानम् १५ ॥ पूर्वरूपमाह-हल्लासेति । हलासः उपस्थितवमनत्वम् , प्रसेको- मुखस्य, लवणो व्याधिमाहात्म्यात् , श्लेष्मणो विदाहादा, तनुः-तरलोऽ- ल्पमात्रो वा ॥५॥ वातजा-हत्पार्श्वपीडामुखशोषशीर्षनाभ्यासिकासस्वरभेदतोदैः । उद्वारशब्दप्रबलं सफेन विच्छिन्नकृष्ण तनुकं कषायम् ॥६॥ कृच्छ्रण चाल्पं महताच वेगेनार्कोऽनिलाच्छर्दयतीहदुःखम्॥णा वातिकीमाह-हृत्वपीडाऽऽदितोदान्तरुपलक्षितः, उद्गारशब्दप्रबलं प्रकृष्टसशब्दोद्गारयुक्त, विच्छिन्न - सान्तरवेग, कृणं, तनुकं- तरल, दुःणे यथा स्यात्तथा, महता वेगेन-प्रचण्डरयेण, कृच्छरेण-अत्यधिकपरिश्रमेण,स. रूपं, छर्दयति वमति ॥ ६-७॥ पित्तजा-मूर्छापिपासामुखशोषमूर्धतास्वक्षिसन्तापतमोभ्रमातः । पीतं भृशोष्णं हरित सतिक्तं धूम्रच पित्तेन वमेत्सदाहम् ॥८॥ पत्तिकीमाह-मच्छेत्यादिना । मूळ = संशानाशः, तमः अन्धकाराव- लोकनमिव प्रतीतिः, भ्रमः-चकारूढस्येव, एतरुपसर्गकदम्बः, आसपीडितः, सदाहं-दाहयुक्त, धूम्र-कृष्णलोहितवर्ण, वमेत् छर्दयेत् ॥८॥ कफजा-तन्द्राऽऽस्यमाधुर्यकफप्रसेकसन्तोषनिद्राऽरुचिगौरवात्तः । स्निग्धं धनं स्वादु कफाद्विशुद्ध सरोमहर्षोऽल्परुज वमेत्तु ॥९॥ श्लैष्मिकीमाह-तन्द्रेत्यादि । तन्द्राऽऽदिगौरवान्तरुपद्रवः, आर्स:=पोडि- तः, सरोमहर्षः रोमाञ्चयुक्तः, स्वादु-मधुरं, विशुद्धम् अतिधवलम् , अल्प- राज-स्वल्पवेदनोपपन्न, धमेत् छर्दयेत् ॥ ९ ॥ सर्वजा-शुलाविपाकारुचिदाहतृष्णा-वासप्रमोहप्रवला प्रसक्तम् । छदिखिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥१०॥ सान्निपातिकीमाह-शूलेत्यादिना। शूलादिप्रमोहान्तरुपद्रवः, प्रबला- बलवती, प्रसक्तं -निरन्तर, त्रिदोषाद दोषत्रयसन्निपातात् ॥ १० ॥ असाध्यं छदिरोगिणमाह- विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संकज्य यदोर्धमेति । उत्सन्नदोषस्य समाचितं तं दोषं समुथ नरस्य कोष्ठात् ॥ ११ ॥ विण्मूत्रयोस्तत्समगन्धवर्ण तृट्क्वासहिकाऽऽतियुतं प्रसक्तम् । प्रच्छर्दयेन्दुष्टमिहातिवेगातयादितबा विनाशमेति ॥१२॥ भासाध्यामाह-विखित्यादिना । पायु- अनिलः, विट्स्वेदादिबहानि . .