पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- आगन्तुजत्रिदोषजयोलक्षणम्- अरोचके शोकमयातिलोभक्रोधायचाशुचिगन्धजे स्यात् । स्वाभाविकं चास्यमथारूचिश्व, त्रिदोषजे नैकरसं भवेत्तु ॥४॥ इति श्रीमाधवकरविरचिते माधवनिदाने चतुर्दश. मरोचक-निदान समाप्तम् ॥ १ ॥ शोकादिसमुत्पन्नेऽरोचके-आस्यं मुखं, स्वाभाविक-नैसर्गिकं, भवेन्न तु वातादिवत्कषायत्वादियुतम् , त्रिदोषजे, नैकरसं-बहुरसम् ॥ ४ ॥ इति सुधायामरोचकनिदानम् ॥१४॥ अथ पञ्चदशं छर्दि-निदानम् ॥ १५ ॥ तत्संख्या-दुष्टर्दोषः पृथक सर्वे:भत्सालोचनादिभिः । छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ॥१॥ कारणम्-अतिरतिस्निग्धेरहचलवणरति । अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ॥२॥ श्रमाद् भयात्तथोडगादजीर्णात् क्रिमिदोषतः । नार्याश्चापनसत्वायास्तथाऽतिद्वतमश्नतः। बीभत्सहेतुभिश्चान्यैर्दुतमुत्क्लेशितो बलात् ॥३॥ छर्दिनिरुक्ति:-छादयन्नाननं वेगैरर्दयङ्गमानैः । निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ॥ ४ ॥ छर्धामप्यरुचेः सम्भवाद् अरोचकानन्तरं छर्दिनिदानमाह-दुष्टरित्यादि । पृथक् सर्वैर्वा दोषः, दुष्टः प्रकुपितैः, वीभत्सालोचनादिभिः वीभत्सानाम् अत्यर्थं कुथितमांसादीनाम् , आलोचनादिभिःदर्शनघ्राणादिभिः, पञ्चविधा- श्छदयो जायन्ते। अतिवादिपदार्थरतिसेवितः, असात्म्यैः अहितपदार्थ, भुक्तः, आपनसत्त्वाया:- गुर्विण्याः, नार्याः-स्त्रियाः, प्रतिद्रुतम् - अतिशीघ्रम् , अवनतो भुञानस्य, बलात्, उत्क्लेशितःप्रेरितः, दोषः, वर्ग-मुर्ख, प्रथा- वितः सन् , अङ्गभङ्गः गात्रकम्पनैवें गः, अर्दयन-पीडयन् , आनन-मुखं छादयति, तस्माच्छर्दिनिरुच्यते वैयरिति शेषः ॥ १-४॥ पूर्वरूप-सासोद्वाररोधौ च प्रसेको ख्वणस्सनुः । द्वेषोऽनपाने च भूश वर्माना पूर्वलक्षणम् ॥५॥ .