पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- (विदाहि द्रव्यमुद्गारमम्ल कुर्यात्तथा तृषाम् । हदि दाहच जनयेत् पाकं गच्छति तच्चिरात् ॥) श्राभिमुख्येन स्यन्दितुं शीलं यस्य तत्तदभिष्यन्दि । (पैच्छिल्या गौरवाद् द्रव्य खूध्वा रसवहाः शिराः । धसे यगौरवं तत्स्यादमिष्यन्दि यथा दधि॥) विष्टभ्य पाकं गच्छति यत्तद् विष्टम्भि, यथा-चणकादि । व्यायामकर्म धनुराकर्षणादिव्यापारः, अपतर्पणम्-उपवासः, एतैः कारणैः, हिका श्वासच कासश्च समुपजायत-इति । नन्वेषां हिकाऽऽदीनां समानहेतुचिकित्सितत्वेन कासस्य प्रकरणान्तरे लेखोऽसङ्गत इति चेन्न दोषभेदेन कासस्य भेदात्। कासाः पृथक् त्रयः । हिकाश्चासौ तु श्लेष्मानिलात्मकावेवेति भेदः ॥१-२ ॥ हिकासम्प्राप्ति:- मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्तिहान्त्राणि मुखादिवाक्षिपन् । स घोषवानाशु हिनस्त्यसून यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ॥३॥ हिकानां निर्वचन स्वरूपश्च निर्दिशति-मुहुर्मुहुरिति । वायुः उदानानु- गतः प्राणः, सस्वनः सशब्दः, यकृप्लिहान्त्राणि, मुखात् - मुखमानीय (ल्यब्लोपे पञ्चमीति ), घोषवान् शब्दयुक्तः, सः, पवनः, यतः, शी. धम् , असून् -प्राणान् , हिनस्ति तो हिक्केति, बुधैः, अभिधीयते-क. थ्यते । (पृषोदरादित्वात्साधुः) हिगिति कृत्वा कायति शम्दायति इति वा हि. कानिरुक्तिः ॥३॥ हिका अनजां यमलां क्षुद्रो गम्भीरां महती तथा संख्या- वायुः कफेनानुगतः पक्ष हिकाः करोति हि ॥४॥ हिक्का- कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता। पूर्वरूपं-हिक्कानां पूर्वरूपाणि कुबेराटोप एव च ॥५॥ अन्नजा-पानान्नैरतिसंयुक्तः सहसा पीडितोऽनिलः । हिक्कयत्यूचंगो भूत्वा तां विद्यादबर्जा मिक्क् ॥६॥ यमला-चिरेण यमलेगर्या हिक्का सम्प्रवरते। कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् ॥ ७॥ शुद्रिका-प्रष्टकालय गमन्दः समभिवर्तते। क्षुद्रिका नाम सा हिका जन्नुमूलात्प्रधाविता॥.....