पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिकाचासनिदानम् १२ ॥ गम्भीरा-नाभिप्रवृत्ता या हिका घोरा गम्भीरनादिनी। अनेकोपववती गम्भीरा नाम सा स्मृता॥९॥ महाहिका-मर्माण्युत्पीडयन्तीव सततं या प्रवर्तते । महाहिक्केति सा ज्ञेया सर्वगात्रविकम्पिनी ॥१०॥ असाध्यरूप- आयम्यते हिकतो यस्य देहो दृष्टियोर्ध्वं नाम्यते यस्य निन्यम् । क्षीणोऽनद्विद क्षौति यश्चातिमात्रं तौ द्वौ चान्त्यौ वर्जयेद्धिकमानौ ११ अन्यच्च- अतिसंचितदोषस्य भक्तच्छेदकृशस्य च । च्याधिभिः क्षणदेहस्य बृद्धस्यातिव्यवायिनः। आसां या सा समुत्पन्ना हिका हन्त्याशु जीवितम् ॥१२॥ हिकाया असाध्यलक्षणमाह-आयम्यत इत्यादिना। हिकतो-हिक्का- रोगाकान्तस्य, यस्य-नरस्य, देहः, आयम्यते-विस्तार्यत इव, दृष्टिश्चोर्व, नाम्यते- प्राप्यते, अन्ये तु नाम्यते - आकुन्च्यते, देह ति सम्बन्ध इति वदन्ति । क्षौति-विक्कति, सौ द्वौ बर्जयेत् , अन्त्यौ च द्वौ गम्भीरामहतीभ्या- मभ्यदिती वर्जयेत् , भक्तच्छेदकृशस्य - भोजनत्यागदुर्बलस्य ॥११-१२ ॥ अन्यञ्च- यमिका च प्रलापात्तिमोहतृष्णासमन्विता ॥ १३ ॥ अक्षीणश्चाप्यदीनच स्थिरधात्विन्द्रियश्च यः। तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा ॥१४॥ श्वासरोग (भैरव कारणहिका बहुभिः संप्रवर्तते । निदानम्-तैरव कारणः श्वासो पोरो भवति देहिनाम् ) ॥१५॥ यमिकाया असाध्यस्वमाह-यमिकेति । प्रलापातिमोहादिसमन्विता ह. न्ति । यः, क्षीणो- बलवान् , अदीनर-प्रसन्नमनाः, स्थिराणि धात्वादीनि यस्य स तथाभूतोऽपि च यस्तस्य साधयितुं शक्याऽन्यथा हन्ति ॥ १३-१५॥ श्वाससंख्या महोच्छिन्नतमकक्षुद्रभेवस्तु पवधा। भियते स महाव्याधिःपवास एको विशेषतः ॥१६॥ श्वासानाह-महोति । एकः स महान्याधिः श्वासः श्वसनत्वसाधा- देक एव हेतुलिङ्गभेदेन पत्रधा मियते । महेति । २-महाश्वासः २-ऊप्रश्वासः, ३-छिन्नश्वासः,४-तमकश्वासः, ५-तुद्रश्वास इति ॥१६॥ तत्र.दोषोल्वणता (वाताधिको भवेत् शुद्धस्तमकस्तु कफोमवः ।