पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ सुधोपेते माधवनिदाने- प्रकुपितं समस्तै रोमकूप प्रवर्तते ॥ १-३ ।। पूर्वरूप-सदन शीतकामित्वं कण्ठधूमायनं वमिः । लोहगन्धिश्च निःश्वासो भवत्यस्मिन भविष्यति ॥४॥ पूर्वरूपमाह-सदनमित्यादि । अस्मिन्-रक्तपित्ते, भविष्यति-उत्पथमा. ने सति, कण्ठधूमायनम् कण्ठमार्गेण धूमनिःसरणमिव प्रत्ययः ॥ ४ ॥ इलैष्मिकं सान्द्रं सपाण्डु सस्नेह पिच्छिलं च कफान्वितम् ॥५॥ वातिक-श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ॥६॥ पैत्तिक-रक्तपित्तं कषायाम कृष्णं गोमूत्रसंनिभम् । मेचकागारधूमाभमानाभं च पैत्तिकम् ॥७॥ पैत्तिकमाह-रक्तपित्तमित्यादि । कषायामकाथवर्णम्, मेचकागार- धूमाभं भेचकाभम्-आगारधूमा च, आगार-गृहम्। अअनाभ-सौवीरा- अनसदृशम् ॥७॥ दन्द्वत्रिदोषज-संसृष्टलिङ्गसंसर्गात्त्रिलिङ्ग सांनिपातिकम् ॥ ८॥ मार्गभेदेन रक्तपित्तभेदद्वयम्- ऊर्जग कफसंसृष्टमधोगं पवनानुगम् । द्विमार्ग कफवाताभ्यामुभाम्यामनुवर्तते ॥ ९॥ साध्यासाध्यम्- ऊय साध्यमधो याप्यममाध्यं युगपद्वतम् । एकमार्ग बलवतो नातिवेगं नवोत्थितम् । रक्तपित्तं सुखे काले साध्यं स्यानिरुपद्रवम् । एकदोषानुगं साध्यं द्विदोष याप्यमुच्यते । यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् । व्याधिभिः क्षीणदेहस्य बृद्धस्यानश्नतश्च यत् ॥१०॥ दोषभेदेन साध्यत्वादिकमाह-एकेति । एकदोषानुगं-दोपकसम्बद्धम् , साध्यं द्विदोषानुगत याप्यं त्रिदोषमसाध्यमिति, क्षीणदेहस्य-कुशतनोः, अन- पनतः- अरुच्यादिनाऽनमभुभानस्य ॥१०॥ रक्तपित्तोपद्रवाः- दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूच्छा- भक्ते घोरो विदाहस्स्वरतिरपि सदा हचतुल्या च पीटा।