पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजयक्ष्मादिनिदानम् १०। तृष्णा कोष्ठस्य भेदः शिरसि च तपन पूतिनिष्ठीवनत्वं, भक्तद्वेषाविपाको विकृतिरपि भवेद्रक्तपित्तोपसः ॥११॥ उपद्रवानाह-दौर्बल्यमित्यादि । दौर्बल्य-शक्तयभावः, वमथुः वमिः, घोरो विदाहः अतीव विदाहपाकः, हृदि हृदये, अतुल्या-असदृशी, पीडा । तपनं संन्तापः, पूति-दुर्गन्धम् , विकृतिराहारस्य, उपसर्गाः उपद्रवाः, रक्त- पित्तस्योपसर्गा रक्तपित्तोपसर्गाः ॥ ११ ॥ रक्तपित्तस्यासाध्यलक्षणानि- मांसप्रक्षालनाभं कुथितमिव च यत् कर्दमाम्भोनि वा, मेदःपूयास्रकल्प यकृदिव यदि वा पक्कजम्बूफलाभम् । यत्कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा. स्तबज्य रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ॥१२॥ येन चोपहतो रक्तं रक्तपित्तेन मानवः । पश्येद् दृश्यं वियच्चापि तच्चासाध्यमसंशयम् ॥ १३ ॥ लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः । लोहितोद्वारदर्शी च म्रियते रक्तपैत्तिकः ॥१४॥ इति श्रीमाधवकरविरचिते माधवनिदाने नवर्म रक्तपित्तनिदान समातम् ॥९॥ असाध्यलक्षणमाह-मांसेति । मांसप्रक्षालना-मांसधावनतोयसदृशम् , कुथितमिव दुर्गन्धर्ता गतमिव,कर्दमाम्भोनिभं वा-कर्दमः पक्कस्तन्निभं तत्स- दृशम् अम्भोनिमें जलनिभं वा,मेदापूयास्रकल्प मेद कल्प-पूयकल्पमस्रकल्प- मित्यर्थः । नीलं चाषपक्षवर्णम्। कुणपं-शवगन्धयुक्तम् । सुरपतिधनुषा%3 देवेन्द्रधन्वना तुल्यं कर्बुरत्वादिति भावः। येन-रक्तपित्तेन, उपहतः पीडितः, दृश्य धटपटादिक, विय-आकाशं वा रक्तं पश्येत् । लोहितेक्षणः-रक्तनैत्रः, सः । रक्तपैत्तिकः रक्तपित्तरोगी, म्रियते - पञ्चत्वं याति ॥ १२-१४ ॥ ॥ इति सुधायां नवम रक्तपित्तनिदानम् ॥ ९ ॥ TRA अथ दशमं राजयक्ष्मो रक्षत-निदानम् ॥ १०॥ कारण-बेगरोधात् क्षयाचैव साहसाद्विषमाशनात् । त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥१॥ -