पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रक्तपित्तनिदानम् । नश्यति श्वासकासातॊ विड्भेदी कुम्भकामली ॥ २३ ॥ कुम्भकामलाया असाध्यलक्षणमाह-छर्दीत्यादि । हुल्लासः उपस्थितव. मनत्वम् , विड्भेदी-पुरीषप्रवृत्तिमान् ।। २३ ।। हलीमक- यदा तु पाण्डोर्वणः स्याद्वरितः स्थावपीतकः । लक्षणम्-बलोत्साहक्षयस्तन्द्रा मन्दाग्नित्वं मृदुज्वरः ॥ २४ ॥ स्त्रीष्वहर्षोऽङ्गामर्दश्च दाहस्तृष्णाऽरुचिर्भमः। हलीमकं तदा तस्य विद्यादनिलपित्ततः ॥२६॥ पाण्डुरोगस्यैवावस्थिकविशेषो हलीमकस्तमाह-यदेत्यादि । यदा पाण्डो पाण्डुरोगयुक्तस्य, हरितादिवर्णादय उपद्रवा स्युस्तदा वातपित्ताभ्यां हलीमकेति रोगविशेष जानीयात् । श्यावः नीलवर्णः । स्त्रीष्वहर्षः रमणीरमणेच्छाया- अमावः। अङ्गमदः गात्रत्रोटनम् ॥ २४-२५ ॥ इति सुधायामष्टमं पाण्डुरोगादिनिदानं समाप्तम् ॥ ८॥ पानकीरोग (सन्तापो भिन्नवर्चस्त्वं बहिरन्तश्च पीतता। लक्षणम्-पाण्डता नेत्रयोर्यस्य पानकीलक्षणं भवेत् ) ॥२६॥ इति श्रीमाधवकरविरचिते माधवनिदानेऽष्टम पाण्डुरोगकामला- कुम्भकामला-हलीमक-निदान समाप्तम् ॥ ८॥ अथ नवमं रक्तपित्त-निदानम् ॥8॥ कारणम्-धर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च ॥१॥ संप्राप्तिः-पितं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् । सतः प्रवर्तते रक्तमूवं चाधो द्विधाऽपि वा ॥२॥ ऊर्ध्वं नासाक्षिकस्यै मेंढ्योनिगुदैरघः । कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ॥३॥ पाण्डुरोगवद्रक्तपित्तस्यापि पित्तजन्यत्वेन पाण्डुरोगानन्तरं रक्तपित्तमाह- घोति। धर्मः सूर्यसन्ताप:-व्यवायः-मैथुनम्, तीक्ष्ण मरिचादि, उष्णम्- अग्निसेवाऽऽदि, स्वगुणैः निजतीक्ष्णादिगुणैः, विदग्ध अकुपितं पित्त (क) शोणित-तं, विदहतिकोपयति । ततो रक्तमूर्खमयो विधाऽपि वा प्रवर्तते- निःसरति । अर्चनासाऽऽदिभिः, अधोमेदादिमिः, 'मेद लिङ्गम् । पति-