पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यच्च- . , सुधोपेते माधवनिदाने- -पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत् । पाण्डसंघातदशी च पाण्डुरोगी विनश्यति ॥ १५ ॥ अन्यच्च-अन्तेषु शून परिहीणमध्यं म्लान तथाऽन्तेषु च मध्यशूनम् । गुदे च शेफस्यथ मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम् । विवर्जयेत्पाण्डुकिन यशोऽर्थी तथाऽतिसारज्वरपीडितं च॥१६॥ अन्तेषु हस्तपादादिषु शुनं-शोथयुक्तं, परिहीणमध्य-दुर्बलमध्य- शरीरम् , असंज्ञकल्प-मृतप्राय, पाण्डुकिनं - पाण्डुरोगिणम् , यशोऽथी- कोत्तिकामः, वैद्यः, त्यजेत् - विबर्जयेत् । असाध्यत्वादिति भावः ॥ १६ ॥ कामलाल- पाण्डुरोगी तु योऽत्यर्थ पित्तलानि निषेवते क्षणम्- तस्य पित्तममृङमांसं दग्ध्वा रोगाय कल्पते ॥ १७ ॥ हारिद्रनेत्रः स भृशं हारिद्रत्वनखाननः । रक्तपीतशकृन्मुत्रो भेकवर्णो हतेन्द्रियः ॥१८॥ दाहाविपाकदौर्बल्यसदनारुचिकर्षितः । कामला बहुपित्तैषा कोठशाखाऽऽश्रया मता ॥१९॥ कुम्भकामला-कालान्तरात् खरीभूता कृच्छ्रा स्यात्कुम्भकामला ॥२०॥ पाण्डुरोगस्यैवावस्थाविशेषः कामलारोगस्तमाह-यः पाण्डुरोगी, पित्तला- नि-पित्तवर्धकानि, द्रव्याणि, निषेवते तस्य पित्तं (कर्तपदम् ) असृङमांस दग्ध्वा रोगाय, कल्पते-सम्पद्यते। स कामली, हारिद्रनेत्रः-पीतनयनः, भेकवर्णः-मण्डूकच्छविः, एषा कामला, बहुपित्ता-पित्ताधिका, कोष्ठशा- खाऽऽश्रया-कोष्ठाश्रया शाखाऽऽश्रया चेति । कालान्तरात् , खरीभूता-जठरता गता एषा, कुम्भकामलेति कथ्यते, सा कृच्छताध्या भवतीति ॥ १७-२०॥ असाध्यरूपं-कृष्णपीतशकुन्मत्रो भृशं शूनच मानवः । स रकाक्षिमुखच्छदिविण्मूम्रो यश्च ताम्यति ॥ २१ ॥ दाहारुचितानाहतन्द्रामोहसमन्वितः । नाग्निसंशः क्षिप्रं हि कामलावान्विपद्यते ॥ २२ ॥ तस्या असाध्यलक्षणमाह-कृष्णेत्यादि । कृष्णपीतशकुन्मूत्रः-कृष्ण पीतच शकृन्मूत्रश्च यस्य स तथा ।शूनः-शोथयुक्तः । ताम्यति-मोहं गच्छ- ति । नाग्निसंज्ञः- अमिर्जठराग्निः, संज्ञा-चेतना, अमिश्च संशा चैत्यमिस नटेऽग्निसंज्ञे यस्य स तथा, क्षिप्रं-शीघ्र, विपद्यते-त्रियते ॥ २१-२२ ॥ भन्यच्च-छरोचकहरुलासज्चरक्कमनिपीडितः। , -