पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. - . पाण्डुरोगादिनिदानम् ८। कोपयेन्मृद्रसादींश्च रौक्ष्याद् भुक्तं च रूक्षयेत् । पूरयत्यविपक्वैव स्रोतांसि निरुणद्धयपि ॥९॥ इन्द्रियाणां बलं हत्वा तेजो वीर्योजसी तथा। पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥१०॥ मृत्तिकोद्भवस्य सम्प्राप्तिमाह-मृत्तिकेत्यादि। मृत्तिकाऽदनशीलस्य= मृद्भक्षणस्वभावस्य, नरस्य, अन्यतमो मल: वातादिः, कुप्यति कोपं याति । मृत्तिकाविशेषो हि दोषविशेष कोपयति तथाहि-कषाया मृत् मारुतमित्यादि । जठराग्निर्मदं न पचति तस्मादविपक्वैव सा मृत् स्रोतांसि निरुणद्धि पूरयति च । स्रोतांसि रसबहादीनि । वीर्योजसी-वीर्य =शक्तिः, भोजः निखिल- धातुसारभूतम् , आशु-शोत्रम्, हत्वा विनाश्य, बलवर्णाग्निनाशनं पाण्डु. रोगं करोति ।। ८-१०॥ मृज्जपाण्डु-शूनाक्षिकूटगण्डः शूनपानाभिमेहनः । लक्षणम्-क्रिमिकोष्ठोऽतिसायेंत मलं साहक्कफान्वितम् ॥११॥ मृत्तिकोद्भवस्य लक्षणमाह-शूनेत्यादि । शून-शोथयुक्तम् , अतिकूट- गण्डभु यस्यासौ शूनाक्षिकूरगण्डभूः, शूनपानाभिमेहनः मेहनशिश्नम् । सासक्-रक्तयुक्त, कफान्वितं च मलमतिसायेंतेति ॥ ११ ॥ असाध्यपाण्डुरोगलक्षणम्- पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति । कालप्रकर्षाच्छूनानां यो वा पीतानि पश्यति ॥१२॥ अन्यच्च-बद्धाल्पविट सहरितं सकर्फ योऽतिसार्यते । दीनः श्वेतातिदिग्धाङ्गछदिमूर्छातृडदितः ॥१३॥ अन्यच्च–स नास्त्यसक्षयायश्च पाण्दुः श्वेतत्वमाप्नुयात् ॥ १४ ॥ असाध्यलक्षणमाह-पाण्डुरोग इत्यादि । चिरोत्पन्न: प्राचीनः, काल. प्रकर्षात् समयाधिक्यात्, खरीभूतः परिपक्को न सिध्यति। अचिरोत्पन्नोऽपि शू- नानां शोथिनां, पीतानि-पीतवर्णानि पश्यति । एतच्चाप्यपरमसाध्यलक्षणम् । बदामपविट-बमल्पं च विद्, विदशब्दोऽत्र नपुंसके। दीनः म्लानशरीरः, श्वेतातिदिग्धाङ्ग: श्वेतेनातिदिग्ध-लिप्तम् अङ्गं यस्यासौ श्वेतातिदिग्धाः । सः -- पाण्डुरोगी, नास्ति-न जीवति, असक्षयात्-रक्तक्षयात्, श्वेत- त्वं-धवलताम् , भाप्नुयात् , यः सोऽपि नास्ति ॥१२-१४ ॥