पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिमान्यादिनिदानम् । ४९ अजीर्णकारणेषु भोजनाधिकस्य विशेषकारणत्वमाह-ये, अनात्मवन्तः- अजितेन्द्रियाः, अप्रमाणत: अग्निबलमतिक्रम्य, पशुवत्-मूढवत् , भुञ्जते, रो- गानीकस्य-रोगसमूहस्य, मूलं-अधानकारणम् , अजीर्णं प्राप्नुवन्ति ॥ १६ ॥ अजीर्णावस्थायां क्षुद्भ्रान्तेः कारणम्- (स्वल्पं यदा दोषविबदमाम लीनं न तेजःपथमावृणोति । भवत्यजीर्णेऽपि तदा बुभुक्षा या मन्दबुद्धीन् विषवन्निहन्ति ॥१७॥ प्रायेणाहारवैषम्यादजीर्ण जायते नृणाम् । तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति)॥१८॥ विषूच्यादि- अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् । हेतुः- विषूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ॥ १९ ॥ विषूच्यादीनामजीर्णजन्यत्वादजीर्णानन्तरं विषूच्यादीनाइ-अजीर्णमित्यादि । प्रामादिकमजीर्ण यद् ईरितं कथितं, तस्माद्विषूच्यलसको भवेताम् , विलम्बिका चापि भवेत् ॥ १९॥ विषूचिकानि-सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिल: रुक्तिः-- यत्राजीर्णेन सा वैधैर्विषूचीति निगद्यते ॥२०॥ विषूच्या निरुक्तिमाह-अजीर्णेन, अनिल:-वायुः, यत्र सूचीभिरिव नर- स्य गात्राणि तुदन-व्यथयन् , सन्तिष्ठते, वैयः सा विषूचीति निगद्यते ॥ २० ॥ न तां परिमिताहारा लभन्ते विदितागमाः । मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः ॥२१॥ तांविषूची, विदितागमाः-आयुर्वेदमर्मशाः, न लभन्ते, किन्तु-अश- नलोलुपा भोजनलुब्धाः ॥ २१ ॥ विषूचिका- मूर्छाऽतिसारो वमथुः पिपासा शूलो प्रमोद्वेष्टनजृम्भदाहाः । लक्षणम्-वैवर्ण्यकम्पो हृदये रुजश्च भवन्ति तस्यां शिरसच भेदः ॥२२॥ विषूच्या लक्षणमाह-मूछेत्यादि। तस्या-विषच्याम् , मूर्छाऽऽदयो- भवन्तीत्यन्वयः। वमथुः = वान्तिः, वैव = गात्रस्य, शिरसश्च भेदः मस्तकपीडा ।। २२॥ विषूचिको (निद्रानाशोऽरतिः कम्पो मूत्राघातो विसंशता । पद्रवाः- अमी उपद्रवा घोरा विषूच्यां पञ्च दारुणाः)॥२३॥ अलसकरूपं-कुक्षिरानयतेऽस्यर्थ प्रताम्येत्परिकूजति । निदो मारुतश्चैव कुक्षापरि धावति ॥२४॥