पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० सुधोपेते माधवनिदाने- वातव! निरोधश्च यस्यात्यर्थं भवेदपि । तस्यालसकमाचष्टे तृष्णोद्गारो च यस्य तु ॥२५॥ अलसकमाह-कुक्षिरित्यादि । कुक्षिः- उदरम् , आनाते = आध्मा- यते, प्रताम्येत् =मोहं गच्छेत्, परिकूजति आर्तरावं करोति, यस्य - नरस्य, निरुद्धः-प्रतिरुद्धगतिः, मारुतः = पवनः, कुक्षौ- उदरे, उपरि- धावति = ऊर्व हृदयादिकं गच्छत्ति, वातव!निरोधः-विण्मूत्रावरोधः, तस्य-नरस्य, अलसकमिति अन्वर्थनाम दोशणामलसीभूतत्वात् । यदुक्तम. न्यत्र--प्रयाति नो नाधस्तादाहारोऽथ विपद्यते । आमाशयेऽलसी- भूतस्तेन सोऽलसकः स्मृतः ॥ २४-२५ ॥ विलम्बिका वा दण्डालसकः-- दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य । विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ॥२६॥ विलम्बिकामाह-दुष्टमित्यादि । भुक्तमन्नं कफमारुताभ्यां दुष्ट, नोर्ध्व- मधश्च प्रवर्तते वमनविरेचने न जायेते. ता, भृशदुश्चिकित्स्यावर्जनीयां, पुराणाः- प्राक्तनाः, विलम्बिकाम् , आचक्षते-कथयन्ति, नन्वलसकविल. म्बिकयोरुभयोर्यचपि श्लेष्मानिलप्राधान्य विरेचनवमनशून्यत्वं समानं तथाऽपि शूलाधिकमलसकविशेषादिति भेदः ॥२६॥ विषयलसक्योरसाध्यलक्षणानि- यः श्यावदन्तोष्ठनखोऽल्पसंज्ञो वयदितोऽभ्यन्तरयातनेत्रः । क्षामस्वरः सर्वविमुक्तसन्धिर्यायानरः सोऽपुनरागमाय ॥२७॥ असाध्यलक्षणमाह-अल्पसंज्ञः- मृतप्रायः, अभ्यन्तरयातनेत्रः-प्र- विष्टान्तनेत्रगोलकः, क्षीणस्वर =दुर्बलशब्दः, अपुनरागमाय-मरणाय ॥२७॥ मामकाय-यत्रस्थमा विजेत्तमेव देश विशेषेण विकारजातः । दोषेण येनावततं शरीरं तल्लक्षणैरामसमुभवैश्च ॥ २८ ॥ अजीर्णजन्यस्यामस्य कार्यमाह-यत्रस्थमित्यादि । आम यत्रस्थं भवति- तमेव देशं विशेषेण रुजेत्-पीडयेत् । येन-दोषेण, अवततं व्याप्त, तल्ल- क्षणैः तल्लिङ्गै हरागादिभिः ॥ २८ ॥ अजीर्ण मुक्त- उदारशुद्धिरुत्साहो वेगोस्सो यथोचितः। लिङ्गम् लघुता क्षुत्पिपासा च जीर्णाहारस्व लक्षणम् ॥२९॥