पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- गदोद्वेगसंज्ञो गदो जायतेऽसौ-निदानं त्विति प्रोक्तमन्त्रार्यवैद्यः । अतीवाद्भुतस्यास्य रोगस्य-चिह्ना-न्यथाऽद्भुतानीह कृत्स्नं शृणुष्व १४ गदेऽस्मिन् भवेदू यस्य रोगस्य चिन्ता-नरे लक्षणं तस्य जायेत ननम् । गदी कोऽपि मन्येत नैजोदरेऽत्र-प्रविष्ट कथं चिद् ध्रुवं गूढपादम् ॥१५॥ भ्रमन्तं च तं खापमान हितेन-स जानाति सर्व प्रभुक्तं स्वमन्त्रम् । निरष्यत्ययं कि कथं वा पथाऽथो-विनक्ष्यस्युपायेन केनेह नूनम् ॥१६॥ न जाने करिष्यत्ययं किं विधात-भवेयं न दष्टः कदाचिच तेन । मदीयोदरस्थस्य चास्य प्रणाश:-प्रयत्नेन केन ध्रुवं संभवेद्वा ॥१०॥ निमित्तेन चानेन मृत्युर्मदीयो-भविष्यत्यवश्यं च दुदवयोगात् । सदा तर्कयनित्थमेवात्मनि स्वे गदार्शोऽअनुते दुःखमत्यर्थमत्र ॥ १८ ॥ प्रजानाति कश्चित्स्वमस्तिष्कमध्ये-प्रविष्टं च कंचित्किचिद्धि भेकम्। ..स भिस्वामदीयंच मस्तिष्कमाशु-हनिष्यत्यवश्यं नु मामित्यजनम् १९ तर्नु मन्यते काचरूपां च कश्चित्-स्वकीयामतस्तस्य रक्षाऽर्थमेव । प्रकामं करोति प्रयत्नं स नून-मुधाऽनेकरूपाभिरेवंविधाभिः ॥२०॥ सदैवाकुलः प्रायशो भूरिचिन्ता-मिरातॊ गदोद्वेगरोगेण भीतः। सुखं चाप्नुवन्नैव किचित् कवि-प्रशुष्येहिवारात्रिमध्ये विशेषात्॥२१॥ नशनोति सप्रायशःसान्त्ववाक्-र्भशंसान्वितोऽभीक्षणमप्यात्मचित्तात् निराकमद्धा भ्रम पूर्वमुक्त-सुयुक्त्याऽपि दूरीकृतं वा कदाचित् ॥२२॥ तव भ्रान्तिरेषेति योऽस्मै गदेद्वा-स तस्मै सदा दुह्मति भ्रान्तचित्तः । व एतद्विचारानुसारेण रोगा-नुमोदी स तस्मै रोचतेऽपि ॥ २३ ॥ रुजा चातिकष्टप्रदा तस्य पका-शये लक्ष्यते श्लेष्मणा संततं हि। प्रलिसा रसज्ञा तथा श्वासमध्ये भवेत् पूतिगन्धोगदेऽस्मिन् विशेषात्४ धमिः स्यादथोत्क्लेश एतत्तु सर्वे ध्रुब लक्षण जीर्णतायाश्च बोध्यम् । - मथ स्पर्शशक्तेश्च तीक्ष्णत्वमत्रा-नुभूयेत केनापि रोगादितेन ॥२६॥ जलोदरादेरुदरामयस्य वा-विपाण्डताया हृदये निरन्तरम् । सांघातिकस्यापि गदस्य कश्चित् करोत्यतीवानुभवं गदीह ॥ २६ ॥ कचित्पुरुषताक्षयो भवति रोगिणि प्रायश:- कचिच्च सततज्वरो-दय उदारदुःखप्रदः । क्वचिच्च किल कम्पना-दिकमलं गदोगिनि. स्विति प्रतितोऽप्यने-कपरिकल्पनासम्भवाः ॥२७॥