पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सुधोपेते माधवनिदाने- सन्निपातानां सन्धिकश्चान्तकश्चैव रुग्दाहश्चित्तविभ्रमः । नामानि-शीताङ्गस्तन्द्रिकश्चैव कण्ठकुब्जश्च कर्णिकः ।। २॥ विख्यातो भुग्ननेत्रश्च रक्तष्ठीवी प्रलापकः । जिह्वकरचेत्यभिन्यासः सन्निपातास्त्रयोदश ॥ ३॥ तषां सन्धिक वासराः सप्त चान्तके दशवासराः। दिनमर्यादा-रुग्दाहे विंशतिज्ञेया वयष्टौ चित्तविभ्रमे ॥ ४ ॥ पक्षमेकं तु शीताङ्ग तन्द्रिके पञ्चविंशतिः । विज्ञया वासराश्चैव कण्ठकुब्जे त्रयोदश ॥ ५ ॥ कर्णिकं च त्रयो मासा भुग्ननेत्रे दिनाष्टकम् । रक्तष्ठीविनि दिग्घस्राः प्रलापे स्युश्चतुर्दश ॥ ६ ॥ जिह्वक षोडशाहानि पक्षोऽभिन्यासलक्षणे । परमायुरिदं प्रोक्तं म्रियते तत्क्षणादपि ॥ ७ ॥ तेषां साध्या-सन्धिकस्तन्द्रिकश्चैव कर्णिकः कण्ठकुब्जकः । साध्यत्वम्-जिह्वकश्चित्तविभ्रंशः षट् साध्याः सप्त मारकाः ॥ ८ ॥ संधिकसन्नि- पूर्वरूपकृतशूलसम्भवं शोषवातबहुवेदनाऽन्वितम् । पातलक्षणम्-श्लेष्मतापबलहानिजागरं सन्निपातमिति सन्धिकं वदेत् ॥ ९ ॥ अन्तकसन्निपातलक्षणम्- दाहं करोति परितापनमातनोति मोहं ददाति विदधाति शिरःप्रकम्पम् । हिक्कां तनोति कसनाच समाजुहोति जानीहित विबुधबर्जितमन्तकाख्यम् ॥१०॥ रूदाहसन्नि- प्रलापपरितापनप्रबलमोहमान्द्यश्रम- पातलक्षणम्-परिभ्रमणवेदनाव्यथितकण्ठमन्याहनुः । निरन्तरतृषाकरः श्वसनकासहिकाऽऽकुलः स कष्टतरसाधनो भवति हन्ति सदाहकः ॥११॥ चित्तविभ्रमसन्निपातलक्षणम्- यदि कथमपि पुसां जायते कायपीडाभ्रममदपरितापा मोहवैकल्यभावः । विकलनयनहासो गीतनृत्यप्रलापोऽभिदधति तमसाध्य केऽपि चित्तभ्रमाख्यम् १२ शीताङ्गसन्निपातलक्षणम्- हिमसदृशशरीरो वेपथुश्वासहिकाः शिथिलितसकलाङ्गः खिन्ननादोग्रतापः। कुमथुदवथुकासच्छर्यतीसारयुक्त-स्त्वरितमरणहेतुः शीतगानःप्रभावात् ॥ १३ ॥