पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्वरनिदानम् ॥ १९ तन्द्रिकसन्नि- प्रभूता तन्द्राऽऽतिवरकफपिपासाऽऽकुलतरो- पातलक्षणम्-भवेच्छयामा जिह्वा पृथुलकठिना कण्टकवृता। अतीसारश्वासक्नुमथुपरितापश्रुतिरुजो- भृशं कण्ठे जाड्य शयनमनिशं तन्द्रिकगदे ॥ १४ ॥ कण्ठकुब्जसन्निपातलक्षणम्- शिरोऽत्तिकण्ठग्रहदाहमोह-कम्पज्वरा-रक्तसमीरणात्तिः । हनुग्रहरतापविलापमूर्छाः-स्यात् कण्ठकुब्जः खलु कष्टसाध्यः॥ १५ ॥ कणिकसन्निपातलक्षणम्- प्रलापश्रुतिहासकण्ठग्रहाङ्ग-व्यथाश्वासकासप्रसेकप्रभावम् ।। ज्वर तापकर्णान्तयोर्गल्लपीडा-बुधाः कर्णिक कष्टसाध्यं वदन्ति ॥ १६ ।। कर्णिकसन्निपातोपद्वा:- प्रलापकण्ठग्रहगात्रदुःख-सश्वासकासज्वरतापकम्पाः । कर्णेऽश्रुतिम्रन्थितया च पीडा-स्यात् कर्णिके कष्टतरा चिकित्सा ॥ १७ ॥ सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः । शोथः संजायते तेन कश्चिदेव प्रमुच्यते ॥ १८ ॥ ज्वरादितो वा ज्वरमध्यतो वा ज्वरान्ततो वा श्रुतिमूलशोथः । क्रमेण साध्यस्त्वथ कष्टसाध्य-स्तथाऽप्यसाध्यः कथितो मुनीन्द्रः॥ १९ ॥ भुननेत्रसन्निपातलक्षणम्- ज्वरबलापचयः रमृतिशून्यता-श्वसनभुनविलोचनमोहितः। प्रलपनभ्रमकम्पनशोफवां-स्त्यजति जीवितमाशु स भुग्नहक् ॥ २० ॥ रक्तष्ठीविसन्नि-रक्तष्ठीवो ज्वरवमितृषामोहशूलातिसारा- पातलक्षणम्-हिकाऽऽधमानभ्रमणदवथुश्वाससंशाप्रणाशाः । श्यामा रक्ता विकृतरसना मण्डलोत्थानरूपा रक्तष्ठीवी निगदित इह प्राणहन्ता प्रसिद्धः ।। २१ ॥ प्रलापकसनिपातलक्षणम्- कम्पप्रलापपरितापनशीर्षपीडा-प्रौढप्रभावपवमानपरोऽन्यचिन्ता । प्रज्ञाप्रणाशविकलः प्रचुरप्रवादः-क्षिप्रं प्रयाति पितृपालपदं प्रलापी ॥२२॥ जिसकसत्रिपातलक्षणम्- श्वसनकासपरितापविल:-कठिनकण्टकवृतातिजिहकः। बधिरमूकबलहानिलक्षणो भवति कष्टतरसाध्यजितकः ॥ २३ ॥