पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ज्वरनिदानम् । काश्मीरपाठे चरके तु- भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक् । वातपित्तोल्वणे विद्यालिङ्ग मन्दकफवरे ॥१॥ शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहहृदयथाः। वातश्लेष्मोल्वणे व्याधौ लिङ्ग पित्तावरे विदुः ॥ २ ॥ छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना । मन्दवाते व्यवस्यन्ति लिङ्ग पित्तकफोल्वणे ॥३॥ सन्ध्यस्थिशिरसां शूल प्रलापो गौरवं भ्रमः। वातोल्वणे स्याद् द्वयनुगे तृष्णा कण्ठास्यशुष्कता ॥ ४ ॥ रक्तविण्मूत्रता दाहः स्वेदस्तृष्णा बलक्षयः । मूर्छा चेति त्रिदोषे रयालिङ्ग पित्ते गरीयसि ॥५॥ आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः । कफोल्वणं सन्निपातं तन्द्राकासन चादिशेत् ॥ ६॥ प्रतिश्या च्छदिरालस्यं तन्द्राऽरुच्यग्निमार्दवम् । हीनवाते पित्तमध्ये लिङ्ग श्लेष्माधिके मतम् ॥ ७ ॥ हरिद्राभूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः । हीनवाते मध्यकफे लिङ्ग पित्ताधिके मतम् ॥ ८॥ शिरोरुगवेपथुश्वासप्रलापच्छचरोचकाः । हीनपित्ते मध्यकफे लिङ्गं वाताधिके मतम् ॥ ९ ॥ शीतता गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक। हीनपित्ते वातमध्ये लिङ्ग श्लेष्माधिके विदुः॥ १० ॥ व!भदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिर्धमः। कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः॥११॥ श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपाचरुक् । कफहीने त्तिमध्ये लिङ्ग वाताधिके मतम् ॥ १२ ॥ च. चि. अ. ३ अथ अश्विनीकुमारसंहितोक्तास्त्रयोदशसन्निपातभेदाः। सन्निपाता-अम्लस्निग्धोणतीपणेः कटुमधुरसुरातापसेवाकषायैः- नां निदान कामक्रोधातिरूःगुरुतरपिशिताहारसौहित्यशीतः । कोपका- शोकैव्यायामचिन्ताग्रहगणवनिताऽत्यन्तसङ्गप्रसङ्गः प्रायः कुप्यन्ति पुंसां मधुसमयशरद्वर्षणे सन्निपाताः ॥१॥ २मा०