पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योनिकन्दनिदानम् । ११७ असाध्या:-चतसृष्वपि चाचासु सर्वलिङ्गोच्छ्रयो भवेत् । पश्चासाध्या भवन्तीह योनयः सर्वदोपजाः ॥ १३ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने द्विषष्टितम योनिव्यापन्निदानं समाप्तम् ॥ ६२ ॥ सन्निपातजा व्यापद आह-अनार्त्तवेत्यादि । अनार्त्तवा रजःशन्या, अस्तनी ईषत्रस्तनी मैथुनै च खरस्पर्शा षण्डी योनिः । महायोनिर्विवृता । सूचीवक्रा-सूक्ष्मद्वारा, अतिसंवृता सर्वलिङ्गसमुत्थाना=सर्वेषां दोषलि- कानां समुत्थानं यत्र सा तथोक्ता सर्वदोषप्रकोपजा । सर्वदोषजाः-सन्निपा. तजाः, पश्चापि योनयोऽसाध्या एव भवन्तीति ।।११-१३ ॥ इति सुधायां योनिब्यापन्निदानम् ।। अथ त्रिषष्टितमं योनिकन्द-निदानम् ॥ ६३॥ योनिकन्दहेतु:- दिवास्वप्नादतिक्रोधाद् व्यायामादतिमैथुनात् ॥ क्षताच नखदन्ताधर्वाताधाः कुपिता यथा ॥१॥ कन्दस्वरूप-पूयशोणितसंकाशं लकुचाकृतिसन्निभम् । जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः ॥२॥ योन्यधिष्ठितत्वेनातः परं योनिकन्दमाह-दिवास्वप्नादित्यादि। दिवास्व. प्नादिहेतुभिः कुपिता वातादयो दोषाः पूयशोणितसकाशं पूयरक्तसदृशम् , लकुचाकृतिसन्निभ - डहुफलतुल्यं (रोगम् ) योनौ जनयन्ति स योनिजो- नाम्ना कन्दः (लकुचफलम् , बड़हर हति लोके ख्यातम् । 'लकुचो लिकुचो. बहुरिग्त्यमरः ॥१-२॥ वातिकः पैत्तिकश्च- रुक्ष निवर्ण स्फुटितं वातिकं तं विनिर्दिशेत् । दाहरोगज्वरैर्युक्त विद्यात् पित्तात्मकं तु तम् ॥३॥ कफजः- नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् । सर्वजश्च-सर्वलिङ्गासमायुक्त सनिपातात्मकं विदुः ॥४॥ इति श्रीमाधवकरविरचिते माधवनिदाने त्रिषष्टितम पोनिकन्द-निदान समाम् ॥६३॥