पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सुधोपेते माधवनिदाने- वातजादिभेदेन रूपमाह-रूक्षमित्यादि। नीलपुष्पप्रतीकाशम् - अतसीपुष्पवर्णम् । शेष सुस्फुटम् ॥ ३-४ ॥ ॥ इति सुधायां योनिकन्दनिदानम् ॥ अथ चतुःषष्टितमं मूढगर्भ-निदानम् ॥ ६४ ॥ गर्भपातहेतुः- भयाभिघातातीक्ष्णोष्णपानाशननिषेवणात् । गर्भ पतति रक्तस्य सशुलं दर्शनं भवेत् ॥ १॥ भयादिहेतुभिः पतति गर्भे सशूलं रक्तस्य दर्शनं भवेत् । पतनं -प्रेसनं, तेनोभयोः-स्रावपातयोः संग्रहः॥१॥ कालसम्बन्धेन स्राव-पातयो दः- गर्भस्रावो गर्भपातश्च- आचतुर्थात्ततो मासात् प्रस्रवेन्द्र विद्रवः । ततः स्थिरशरीरस्य पातः पञ्चम-षष्ठयोः ॥२॥ स्रावपातयोः कालनियममाह-आचतुर्थादित्यादि । आचतुर्थात्-चतुर्थ- मासाद नन्तरं, गर्भविद्रवः-विशेषेण द्रवो विद्रवः। स्थिरशरीरस्य कठिन- शरीरावयवस्य, पञ्चमषष्ठयोः पात इति ॥ २ ॥ मूढगर्भरूप-गोऽभिघातविषमाशनपीडनायैः- पक्वं द्रुमादिव फलं पतति क्षणेन । मूढः करोति पवनः खलु मूढगर्भ शूलं च योनिजठरादिषु मूत्रसङ्गम् ॥ ३ ॥ असामयिकगर्भपाते निदानपूर्वकं दृष्टान्तमाह-गर्मोऽभिधातेत्यादि । अभिघातादिनिमित्तः, दुमात्-वृक्षात्, पकं फलमिव क्षणेन पतति । मूढ-- पवनः वायुः. योनिजठरादिषु शूल मूत्रसङ्ग-मूत्रावरोधन, करोति ॥३॥ मूढगर्भाः-(अष्टविधाः) भुमोऽनिलेन बिगुणेन ततः स गर्भ:- संख्यामतीत्य बहुधा समुपैति योनिम् । द्वार निरुध्य शिरसा जठरेण कश्चित् कबिच्छरपरिवर्तितकुब्जदेहः ॥४॥