पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ११६ सुधोपेते माधवनिदाने- पित्तजा व्यापद आह-सदाहमित्यादि। यस्यां योनौ, सदाहं रक्तं क्षीयते सा लोहितक्षया । सवातं रजसा मार्सवेन, युतं बीजम् , उद्विरद= वमेत् , सावामिनी। संसते-स्वस्थानाच्च्यवते, रक्तं सा प्रन सिनी। क्षोभिता-विमर्दिशा, दुष्प्रजायिनी-दुःखप्रसवा, रक्तसंक्षयात् । स्थित स्थित गर्भ हन्ति सा पुत्रघ्नी स्मृता। अस्यर्थम् अतिशयेन, दाहादियुक्ता पित्तला योनिः, आचासु चतसूषु-लोहितक्षयादिषु, पित्तलिङ्गोच्छ्रयः- पित्तलक्षणाधिक्यं भवेत् ॥५-७॥ पञ्च कफप्सम्बद्धास्तत्रात्यानन्दा कर्णिका च- अत्यानन्दा न सन्तोष प्राम्यधर्मण गच्छति । कणिन्यां कणिका योनौ श्लेष्मासुग्भ्यां प्रजायते ॥८॥ अचरणाऽतिच-मैथुनेऽचरणा पूर्व पुरुषादतिरिच्यते रणा च-बहुशश्वातिचरणा तयोर्बीज न विन्दति ॥९॥ कफजा-इलेष्मला पिच्छिला योनिः कण्डूपस्ताऽतिशीतला । चतसृष्वपि चाचासु श्लेष्मलिङ्गोच्छ्यो भवेत् ॥१०॥ श्लेष्मजा व्यापद आह-अत्यानन्देत्यादि । अत्यानन्दा योनिः, प्राम्य- धर्मेण= मैथुनेन, सन्तोष-शान्ति, न गच्छति । कणिन्या योनौ श्लेष्मा- सग्भ्यां कफरक्ताभ्यां, कणिका प्रजायते (कणिका हि मौसकन्दाकारप्रन्थिः) । अचरणायोनिः-मैथुने पूर्व पुरुषाद, अतिरिच्यतेविराममधिगच्छति। वहु- शो मैथुनाचरणादतिचरणा। तयोः प्रचरणाऽतिचरणयोः, बीजं न विन्दति न गृह्णाति । कण्डूग्रस्ताऽतिशीतला पिच्छिला च श्लेष्मला योनिः । शेधं सुवोध पूर्ववत् ॥ ८-१० ।। पञ्च विदोषसम्बद्धाः- भस्तनी षण्डी चाण्डली- अनार्सवाऽस्तनी षण्डी खरस्पर्शा चमैथुने । अतिकायगृहीतायास्तरुण्योस्त्वण्डली भवेत् ॥११॥ विता चातिसंवृता- विवृता च महायोनिः सूचीवक्त्रातिसंवृता ॥१२॥ त्रिदोषज-सर्वेलिनसमुत्थाना सर्वदोषप्रकोपजा।