पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योनिध्यापन्निदानम् ६३। मिथ्याऽऽचारेण ताः स्त्रीणां प्रदुष्टेनासवेन छ । जायन्ते बीजदोषाच दैवाच शृणु ताः पृथक् ॥ १ ॥ योनिसम्भूतत्वेनासृगदरानन्तरं योनिव्यापदमाह-विंशतिरित्यादि । रोगसंग्रहे रोगाणां संग्रहो रोगसंग्रहः। सचाटोदरीयेचरकोक्ते-योनौ स्त्रीणा. मपत्यमार्गे,विंशतिः, व्यापदा रोगाः, निर्दिष्टाः, ता:-व्यापदः, स्त्रीणां मिथ्या- ऽऽचारेण, प्रदुष्टेन वातादिदोषदूषितेन, आर्त्तवेन च वीजदोषात् -मातापित्रो- गर्भारम्भकबीजदोषात् ,दैवात्-पूर्वजन्मार्जिताधर्मकारणाच्च, जायन्ते ॥१॥ पञ्चवातसम्बद्धा योनिल्यापदः- उदावर्ता-सा फेनिलमुदावर्ता रजः कृच्छ्रेण मुश्चति ॥२॥ बन्ध्या विप्लुता परिप्लुता च- बन्ध्यां नष्टार्तवां विद्याद्विप्लुत्ता नित्यवेदनाम् । परिप्लुतायां भवति पाम्यवर्मण रुग्भृशम् ॥ ३ ॥ बातला-वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता। चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ॥ ४ ॥ वातजा व्यापद आह-सा फेनिलमित्यादि । उदावतेति । उत्=ऊर्ध्व- मावतः समन्ताद् वर्त्तनं वायोर्यत्र सा तथोक्ता, अर्शआदित्वादच् । फेनिलं फेनयुक्त, रजः- आर्तवं, कृच्छे ण मुञ्चति। नष्टार्तवाम् =अदृष्टरजस्का, बन्ध्या विद्यात् । नित्यवेदना विप्लुतां विधात् । ग्राम्यधर्मेण - मैथुनेन, भृशम् अत्यर्थं, रुग्-वेदना, परिप्लुतायो भवति । वातला योनिः कर्कशा- कठोरस्पर्शा, स्तब्धशूलनिस्तोदपीडिता च भवति । आधासु चतसृषु- वातला हिवा, उदावर्ताबन्ध्याविप्लुतापरिप्लुतासु, अनिलवेदना भवन्ति ॥२-४॥ पन्न पित्तसम्बद्धाः-- रक्तक्षया-सदाहं क्षोयते रक्तं यस्यां सा लोहितक्षया। वामिनी च-सवातमुदिरेदीजं वामिनी रजसा युतम् ॥६॥ स्रंसिनी क्षोभिता पुत्रनी पित्तला च- प्रस्न सिनी नसते पक्षोभिता दुष्प्रजायिनी। स्थितं स्थित हन्ति गर्भ पुत्राशी रक्तसंक्षयात् ॥६॥ अस्यर्थ पित्तला योनिदाहपाकवरान्विता। चतसृष्वपि चाचासु पिसलिङ्गोच्यो भवेत् ॥७॥