पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. , मुखरोगनिदानम् १६। १८६ दन्तवेष्टः-स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च । दन्तवेष्टः स विज्ञेयो दुष्टशोणितसंभवः ॥ १३ ॥ यस्य दन्तमूलानि पूयरुधिरं स्रवन्ति दन्ताश्च चला भवन्ति स व्यापिर्दुष्ट- शोणितसम्भवो दन्तवेष्टो नाम ॥१३॥ शौषिरः-श्वयथुर्दन्तमूरेषु रुजावान कफरक्तजः । लालानावी स विज्ञेयः शौषिरो नाम नामतः ॥ १४ ॥ यस्य दन्तमूलेषु रुजावान् वेदनायुक्तः, श्वयथुः = शोथः, उत्प्रेक्ष्यते स व्याधिः, नामतः नाम्ना, शौषिरो नाम ॥ १४ ॥ महाशौषिर:-दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीयते । यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञितः ॥१५॥ यस्मिन् = शौषिरे, वेष्टेभ्यो दन्ताश्चलन्ति तालु चाप्यवदोर्यते स सर्वजो- महाशोषिरसंशितः ॥१५॥ परिदरः-दन्तमांसानि शीर्यन्ते यस्मिन् ठीवति चाप्यसक् । पित्तासकफजो व्याधिज्ञेयः परिदरो हि सः ॥ १६ ॥ यस्मिन् दनमांसानि शीर्यन्ते अमृग = रक्तं, छीवति स पित्तामुक्कफजो- च्याधिः परिदरो नाम ॥ १६ ॥ सोपकुश:-चेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च । यस्मिन् सोपकुशो नाम पित्तरक्तकृतो गदः ॥ १ ॥ यस्मिन् वेष्टेषु दाहः पाकश्च भवेत् ताभ्यां - दाहपाकाभ्यां दन्ताश्चलन्ति च स रक्तपित्तकृतो गदाव्याधिः। सोपकुशो नाम ॥ १७ ॥ वैदर्भ:-घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् । चला भवन्ति दन्ताश्च स वैदर्भोऽभिधातजः ॥१८॥ दन्तमासेषु धृष्टेषु महान् संरम्भः-शोथः, जायते दन्ताश्च चला भवन्ति सोऽभिघातजो वैदर्भो नाम ॥ १८ ॥ खलिवर्धन-मारुतेनाधिको दन्तो जायते तीनवेदनः । खलिबर्द्धनसंज्ञोऽसौ जाते रुक्च प्रशाम्यति ॥१९॥ मारुतेन तीनवेदनोऽधिको दन्तो जायतेऽसौ खलिबर्धनसंशको व्याधिः, जाते=उत्पन्नमात्रे दन्ते रुक-पीडा शाम्यति व्याधिप्रभावात् ॥ १९ ॥ करालः-शनैः शनैः प्रकुरुते पायुदन्तसमाभितः । करावान्विकटान्दन्तान्करालो न स सिद्धयति ॥२०॥ १३मा.