पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"१८६ सुधोपेते माधवनिदाने- दन्तसमाश्रितो वायुः शनैः शनैः करालान् विकटान् , दन्तान् , कुरुते स करालसंशको व्याधिन सिद्धयति । असाध्योऽयम् ॥ २० ॥ अधिमांसकः-हानव्ये पश्चिमे दन्ते महाञ् शोथो महारुजः । लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ॥२१॥ हानव्ये हनुकुहरे, पश्चिमे-प्रान्तजे, दन्ते महारुजः-तीनवेदनः, महान् शोथः लालास्रावी भवेत् स कफकृतोऽधिमांसको नाम ।। २१ ॥ दन्तनाड्यः-दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ॥ २२ ॥ अष्टौ दन्तजरोगानाह- दालन:-दीर्यमाणेष्विव रुजा यस्य दन्तेषु जायते । दालनो नाम स व्याधिः सदागतिनिमित्तजः ॥ २३ ॥ यस्य दन्तेषु दीर्यमाणेषु-पाट्यमानैष्विव, रुजा = वेदना जायते सदा. गतिनिमित्तजः वातप्रकोपजः, असौ व्याधिर्दालनो नाम ॥ २३ ॥ क्रिमिदन्तकः-कृष्णच्छिद्रश्चल: स्रावी ससंरम्भो महारुजः । अनिमित्तहजो वाताद्विशेयः क्रिमिदन्तकः ॥ २४ ॥ कृष्णः कृष्णवर्णः, छिद्रः शुषिरवान् । अर्श प्रायजन्तश्छिद्रशब्दः । बावी दन्तमूलेषु । ससंरम्भः = शोथयुक्तः, महारुजः- तीव्रवेदनः, अनि. मित्तरुजा आकस्मिकवेदनाऽन्वितः, वातादूवातकोपतः, क्रिमिदन्तको- नाम व्याधिविज्ञेयः ।। २४ ॥ भजनकः-वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ॥ २६ ॥ यस्य वक्त्रंमुखं ( वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखमित्य- मरः । वर्क =कुटिलं भवेत् , दन्तभङ्गश्च जायतेऽसौ कफवातकृतो मानकसंशि- तो व्याधिः ॥ २५॥ दन्तहर्षः-शीतक्षप्रवाताम्लस्पर्शानामसहा द्विजाः । पित्तमारुतकोपेन दन्तहर्षः स नामतः ॥२६॥ यस्य द्विजाः दन्ताः 'दन्तविप्राण्डजा द्विजा इति कोशः। शीतादीनाम् असहा:-प्रक्षमाः, भवन्ति पित्तमारुतकोपन जायमानोऽसौ नामतः नाम्ना, दन्तहर्षः कथ्यते ॥ २६ ॥ दन्तशर्करा-मलो दन्तगतो यस्तु पित्तमारुतशोषितः । शर्करेव स्वरस्पर्धा सा शेया दन्तशर्करा ॥२७॥