पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १८४ सुधोपेते माधवनिदाने- त्रिदोषजौ-सकृत्कृष्णौ सकृस्पीतौ सकृच्छ्वेतौ तथैव च । सविपातेन विज्ञेयावनेकपिडकाचितौ ॥५॥ सन्निपातेन च-सकृत् कृष्णो सकृत् पीती सकृच्छवेतो, अनेकपिडकाचि- तौ-वातादिवेदनाऽन्वितानेकपिडकाव्याप्तौ भवतः ॥ ५ ॥ रक्तजौ-खर्जरफलवर्णाभिः पिडकाभिनिपीडितौ। रक्तोपसृष्टौ रुधिरं स्वतः शोणितप्रभो॥६॥ रक्तोपसृष्टौ-रक्तदोषोल्वणावोष्ठी, खर्जरफलवर्णाभिः पिडकामिनिपीडितो शोणितप्रभौ -रवौँ. रुधिरं स्रवतः॥६॥ मांसजौ-गुरू स्थूलो मांसदुष्टौ मांसपिण्डवगतौ । जन्तवश्चात्र मूच्छन्ति नरस्योभयतोमुखात् ॥७॥ मैदोजी-सपिर्मण्डप्रतीकाशौ मेदसा कण्डरौ गुरू। अच्छे स्फटिकसंकाशमानावं स्त्रवतो भृशम् ॥ तयोर्चणो न संरोहेन् मृदुत्वं च न गच्छति ॥ ८ ॥ मेदसा ओष्ठौ सर्पिर्मण्डप्रतीकाशौ कण्डुरौ गुरू च भवतः। (सपिर्मण्डो- हि घृतस्योपरितनः स्वच्छभागः) ॥ ८॥ अभिघातजी-क्षतजाभौ विदीयते वाट्येते चाभिघाततः। प्रथितौ च तथा स्यातामोष्ठौ कण्डूममन्वितौ ॥९॥ पञ्चदश दन्तमूलगेगा:- शीतादः-शोणितं दन्तवेष्टेभ्यो यस्याकस्मात्प्रवर्तते दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ॥१०॥ दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम् । शीतादो नाम स व्याधिः कफशोणितसंभवः ॥११॥ यस्यदन्तवेष्टेभ्यः- दन्तबन्धनमांसभ्यः, - अकस्मात् - निष्कारणं,शो- णितं प्रवर्तते= पतति । स कफशोणितसम्भवो व्याधिः शीतादो नाम ॥१०-११ दन्तपुप्पुटक:- दन्तयोखिषु वा यस्य चयथुर्जायते महान् । दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ॥ १२ ॥ यस्य द्वयोर्दन्तयोस्त्रिषु वा महान् श्वयथुर्जायतेऽसौ कफरक्तजो व्याषिर्द- तपुप्पुटको नाम ॥ १२॥