पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ सुधोपेते माधवनिदाने- नीलिका- कृष्णमेवंगुणं गात्रे मुखे वा नीलिका विदुः ॥ ४०॥ परिवत्तिका-मर्दनात् पीडनाद्वाऽति तथैवाप्यभिघाततः। मेढ़चर्म यदा वायुभेजते सर्वतश्चरन् ॥ ४१ ॥ तदा वातोपसृष्टत्वात् तञ्चर्म परिवर्तते। मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ॥ ४२ ॥ सरुजां वातसंभूतां तां विद्यात् परिवर्तिकाम् । सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता ॥ ४३ ॥ अवपाटिका-अल्पीयःखां यदा हर्षाद्वलाद्गच्छेत् स्त्रियं नरः । हस्ताभिवातादपि वा चर्मण्युर्तिते बलात् ॥ ४४ ॥ यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् । निरुद्धप्रकश-वातोपसृष्टे मेढ़े वै चर्म संश्रयते मणिम् ॥ ४५ ॥ मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च । निरुद्धप्रकशे तस्मिन् मन्दधारमवेदनम् ॥ ४६॥ मूत्रं प्रवर्तते जन्तोमणिर्विवियते न च । निरुद्धप्रकश विधात् सहज वातसम्भवम् ॥ ४७ ॥ संनिरुद्धगुदः-वेगसंधारणाद्वायुविहतो गुदसंश्रितः । निरुणद्धि महास्रोतः सूक्ष्मद्वारं करोति च ॥ ४८ ॥ मागस्य सौक्षम्यात् कृच्छ्रेण पुरीषं तस्य गच्छति सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदारुणम् ॥ ४९ ॥ अहिपूतन:-शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोभवेत् । स्विन्ने वाऽस्नाप्यमाने वा कण्डू रक्तकफोद्भवा ॥१०॥ कण्डूयनात्ततः क्षिप्रं स्फोटः स्नावश्च जायते । एकीभूतं प्रणोरं तं विद्यादहिपूतनम् ॥ ११ ॥ वृषणकच्छु: स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः यदा प्रक्लियते स्वेदात् कण्डू जनयते तदा ॥ १२ ॥ कण्डूयनात्ततः क्षिप्रं स्फोटः नावश्च जायते । प्राहुर्वृषणकच्छू तां इलेष्मरकप्रकोपजाम् ॥ १३ ॥ गुदभ्रंशः-प्रवाहणातिसाराभ्यां निर्गच्छति गुर्द बहिः । रुक्षदुर्बलदेहस्य गुदभ्रंश तमादिशेत् ॥५४॥