पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुखरोगनिदानम् ५६। शुकरदंष्ट्रकः-सदाहो रक्तपर्यन्तस्त्वक्पाकी तीनवेदनः । कण्डूमाज्वरकारी च स स्याच्छुकरदंष्ट्रकः ॥ ५५ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चपञ्चाशत्तम क्षुद्ररोग-निदानं समाप्तम् ॥ ५५ ॥ उत्सादनं मार्जनम् । प्रवाहणेन प्रकर्षण कुन्थनेन, अतिवेगोदोणे- नैति यावत् । शूकरदंद्रकालोके 'वराहदाढ' इति प्रसिद्धः ॥ ५२-५५ ॥ इति सुधायां क्षुद्ररोगनिदानम् ॥ LAINEN अथ षट्पञ्चाशत्तमं मुखरोग-निदानम् । ॥ ५६ ॥ हेतुः-आनूपपिशितक्षीरदधिमत्स्यातिसेवनात् । मुखमध्ये गदान कुर्युः क्रुद्धा दोषाः कफोत्तराः॥१॥ आनूपेत्यादि । आनूपपिशितं - जलप्रायदेशीयमासम् (जलप्रायमनूपं स्यादित्यमरः)।कफोत्तराः श्लेष्मोल्वणाः,दोषाः क्रुद्धाः- कुपिताः,मुखमध्ये गदान व्याधीन् । पञ्चषष्टिं कुर्युः। "दन्तेष्वष्टावोष्ठयोश्च मूठेषु दश पञ्च च । नव तालुनि जिह्वायां पञ्च सदशामयाः। कण्ठे त्रयः सर्वसरा एकषष्टिश्चतुः पराः" इति तन्त्रान्तरे वर्णनात् ॥१॥ वातजौ-कर्कशौ परुषौ स्तब्धौ संप्रासानिलवेदनौ । दाल्येते परिपाटयेते ओष्ठौ मारुतकोपतः ॥२॥ वाताधुपसृष्टलक्षणमाह-कर्कशावित्यादिना। मारुतकोपतः, पोष्ठौ कर्कशौ कठोरौ, परुषौ रूदौ, सम्प्राप्तानिलवेदनौ भवतः, दाल्येते-विदार्यते, परि पाटयते च किञ्चिदवदीर्णत्वचौ भवत इत्यर्थः ॥ २ ॥ पित्तजौ-चीयेते पिडकाभिश्च सरुजाभिः समन्ततः । सदाहपाकपिडको पीताभासौ च पित्ततः ॥३॥ पित्तत:-पित्तप्रकोपतः, पोष्ठी समन्ततः सरुजाभिः पिडकाभिश्चीयेते। सदाहपाकपिडको पीताभासौ च भवतः ॥३॥ कफजौ-सवर्णाभिश्व चीयेते पिडकाभिरवेदनौ । भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू॥४॥ कफात्कफप्रकोपतः,सवर्णाभिः ओष्ठसमानवर्णाभिः, पिडकाभिश्चीयेते, भवेदनौ ईषदेदनौ, पिच्छिलो शोतलौ गुरू च भवतः ॥४॥ . .